SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ .८४ (२) आचार्यपदवीयोग्यः - (A) आचार्यस्य पदवी इति आचार्यपदवी । (ष.त.पु.) (B) आचार्यपदव्याः योग्यः इति आचार्य __पदवीयोग्यः । (ष.त.पु.) ततश्च प्रार्गपठितम् , श्रुतमर्थसमन्वितम् । शीघ्रमध्यापयामार्स , वजं गुरुरुंदारधीः ॥२०४॥ अन्वय :- ततः च उदारधीः गुरुः वज्रं प्राग् अपठितम् अर्थ समन्वितं श्रुतं शीघ्रम् अध्यापयामास । समास :- (१) अपठितम् - न पठितम् इति अपठितम्, तद् अपठितम् । (नञ्.त.पु.) (२) अर्थसमन्वितम् - अर्थेन समन्वितम् इति अर्थसमन्वितम् । (तृ.त.पु.) (३) उदारधीः - उदारा धीः यस्य सः इति उदारधीः । ___ (समा.ब.वी.) साक्षिमात्रीकृतगुरुर्वजों गुपितं श्रुतम् । प्रतिबिम्बैमिवादर्शः, सर्वं जग्राह लीलया ॥२०५॥ अन्वय :- आदर्शः प्रतिबिम्बम् इव साक्षिमात्रीकृतगुरुः वज्रः गुपितं सर्वं श्रुतं लीलया जग्राह । समास :- (१) साक्षिमात्रीकृतगुरुः - (A) साक्षी एव इति साक्षिमात्रः । (मयू.व्यं कर्म.) (B) न साक्षिमात्रः इति असाक्षिमात्रः। (नञ्.त.पु.) (C) असाक्षिमात्रः साक्षिमात्रः कृतः इति साक्षिमात्रीकृतः । (गति.त.पु.)
SR No.023181
Book TitleVajraswami charitam
Original Sutra AuthorHemchandracharya
AuthorRamyarenu
PublisherVijaybhadra Charitable Trust
Publication Year2009
Total Pages204
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy