SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல निर्दोष एवायं मार्गः । केवलमपवादस्य मोक्षमार्गत्वेऽपि हीनाचारस्थानतया संविग्नाध्यवसायनिवृत्तिः सुसम्भवेति कारणविलयेऽप्यपवादप्रीतिः माऽभूदिति कारणाभावेऽपवादस्य वय॑त्वख्यात्यर्थमपि प्रायश्चित्तदानं सर्वज्ञाऽऽदिष्टमिति । ___ तथा यतोऽपवादे इन्द्रि यमनोऽनुकूलप्रवृत्तिः प्रायेण भवति, ततस्तत्र सूक्ष्मरागादिदोषसम्भूतिः सुशक्येति तच्छुद्ध्यर्थमपि प्रायश्चित्तव्यवहारः ।। ___ ये तु 'गृहस्थसादृश्यं साधूनां भवेत्' इति उक्तवन्तः, ते हि परिणतिभेदमनालोकितवन्तः, गृहस्था हि शरीररागाच्छरीररक्षां कुर्वन्ति, षट्कार्यांश्च घ्नन्ति, साधवस्तु षट्कायरक्षार्थं षट्कायान् अपवादतो घ्नन्ति, ततश्च महान् परिणतिभेदः, अत एव तेषां हिंसायामपि निर्जरा निरूपिता, यदुक्तं पिंडनियुक्तौ "जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स" इति । ननु धर्मरुचिमुनिना ‘मा विषभूतान्नसकाशात्कीटिकादयो म्रियेरन्' इति बुद्ध्या स्वयमेव तद्भुक्तम्, जीवितं च त्यक्तम् । स च जिनशासनेऽनुमोदितः । ततश्च प्रकृतदृष्टान्तबलादेतदेव सिद्ध्यति यदुत षट्कायरक्षार्थं स्वात्मव्यपरोपणं न्याय्यमिति । किञ्च जिनकल्पिकादयः जीवितहारिविघ्नोपस्थितावपि नापवादे नापि षट्कायान् हन्तुं प्रवर्तन्त इति उत्सर्गमार्गस्तावदयमेव यत् आत्मविराधनासकाशात्संयमविराधना बलीयसी, ततश्च संयमरक्षार्थमात्माऽपि व्यपरोपयितव्य इति । उत्सर्गासहत्वे तु अपवादत आत्मरक्षां कृत्वा संयमो विराधनीय इति चेत् न, एवं हि उत्सर्गतः षट्कायरक्षैव कर्त्तव्या, न तां परित्यज्यात्मरक्षेत्यापन्नम्, तथा सति जिनकल्पिकादीनां पादपोपगमनमेव कर्त्तव्यं स्यात्, न गोचरीविहारादिका चर्या, यतो हि गोचरीविहारादिका चर्याऽऽत्मरक्षोपयोगिनी, परन्तु तत्र वायुकायादिविराधनाऽवश्यम्भाविनी, ततश्च तद्रक्षार्थं तां आत्मरक्षोपयोगिनी चाँ परित्यज्य पादपोपगमनमेवानशनं कर्त्तव्यं स्यात् । किञ्च जिनकल्पिकाः चतुर्थप्रहरादारभ्य पदमात्रमपि न गच्छन्ति, ततश्च तत्काले यदि ते नदीमध्ये भवेयुः, तदाऽपि ते नदी नोत्तरेयुः, एवं कश्चित्तान् वनस्पत्यादिषु प्रक्षिपेत्, तदाऽपि ते तस्मादुत्थायाचित्तभूमौ नागच्छेयुः । अत्र हि षट्कायविराधनाऽतिप्रभूता, तन्निवारणं च नद्युत्तरणाचित्तागमनादिना सुकरमपि ते न कुर्वन्तीति तेषां यः कोऽप्याचारः, स லலலலலலலலலலலலலலலலலலலலலலலலலலலல ५८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy