________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல विलम्बकरणमत्र नोचितमिति कृत्वा गुरुनिद्राव्याघातकरणेऽपि न कश्चिद् दोषः ।
ननु यदि विलम्बकरणे दोषः, तर्हि ध्यायिनं गुरुं दृष्ट्वा किं विलम्बकरणस्योपदेशो दत्तः? इति जिज्ञासायामाह तेन गुरुध्यानव्याघातेन महाहानिसम्भवादिति ।
अयं भावः गुरुः कदाचिदतीवसूक्ष्मार्थपर्यालोचनं करोति, कदाचिच्छासनोद्गतापन्निवारणोपायं चिन्तयति, कदाचिदपूर्वभावसन्तानं सन्धत्ते । तत्रातीवसूक्ष्मार्थपर्यालोचनात् अस्पष्टपूर्वाः पदार्थाः स्पष्टीभवन्ति, आपन्निवारणोपायमीलनात्सङ्घादिमहदापन्महोदधिमुत्तरति, अपूर्वभावाच्च गुरुः स्वयमेवावध्याद्यतिशयज्ञानं प्राप्नोति । परन्तु यदि तत्रान्तरैव साधुः 'मत्थएणवंदामि' इति वदेत्, शिरसा हस्तेन वा गुरुं संस्पृशेत्, तहि धारालग्नं ध्यानं अन्तरैव विघटेत, ततश्च अस्पष्टपदार्थ स्पष्टीभवनापदुत्तरणोपायातिशयज्ञानलाभादयो लाभा न भवेयुरित्येषैव महाहानिः । ___ अत्र हि गुरोर्द्रव्यनिद्राव्याघातस्यानुमतत्वात् ध्यानव्याघातस्याननुमतत्वाच्च स्फुटमेव ज्ञायते यदुत गुरुध्यानं गुरुद्रव्यसुखाच्छ्रेयः । अत एवानुकूलगोचरीप्रभृति-कार्यार्थमपि ध्यानस्थस्य गुरोः विक्षेपो न कर्त्तव्यः, अनुकू लगोचरीजन्यलाभस्य ध्यानजन्यलाभादतिलधीयस्त्वात् ।
papempeoproproggipgaripoopeoproggogoogcopgopodgropoopgapsog
(३४) अप्रलम्बं कल्पं कुर्वतोऽचेतनयतना (ओ.नि. ४१) ບໍ່ຍບໍ່ຂໍບໍ່ຂໍບຂໍ້ຂໍwwຂໍwຂໍ້ຂໍຍໍຍອ້ງຂໍ້ ຂໍ້ ຂ້ອງ
चन्द्र. यदि हि कल्पं प्रलम्बमानं कुर्यात्, तर्हि परिस्पन्दता तेनाचित्तवायूत्पत्तिः स्यात्, तेन च परम्परया सचित्तवायुविराधनाऽपि स्यात्, परन्तु कल्पं अप्रलम्बं कुर्वता साधु नाऽचित्तवायूत्पत्तिनिरुद्धा भवति, ततश्च विराधनाऽपि हीयते । एवंरीत्याऽचेतनयतनाऽत्र बोध्या ।
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः