________________
५०
“तेर्सि बहुमाणेणं उम्मम्गणुमोअणा अणिट्ठफला । तम्हा तित्थयराणाट्ठिएस जुत्तो कित्थ बहुमाणो७८ ॥" चि
यदि च परंपरया - भावाज्ञाप्रयोजकतया साऽप्यनुमोद्या स्यात् तदा निगोदभावादेरपि स्वोपमर्द्दपूर्वक परिणामांतरव्यवहिततत्परिणामप्रयोजकतयाऽनुमोद्यत्वप्रसक्तिरित्यवसेयम् ॥३८॥
अथ क्रियायां विधिशुद्धोपयोगयोगादेव द्रव्याज्ञायाः प्राधान्यमुपपद्यते—
चेलाइविहाणम्मि तम्गयचित्तारणा य विभेओ । तब्बुद्विभावभावेहिं तह य दव्वेयरविसेसो७९ ||"
इति वचनात्, तथा च आगमदेशे क्रियारूपभावे आगमनिषेधानो आगमतो भावाज्ञात्वमेव युक्तम्, नोशब्दस्य देशनिषेधार्थत्वात्, न तु द्रव्याज्ञात्वमित्याशङ्कायामाह — नोआगमभावाणा एसा णो बज्झकिरियमाहिगिञ्च । दव्वेण य भावेण य छेयत्तं सुए भणिअं ॥ ३९ ॥
एषा अधिकृतद्रव्याशा, नो नैव, बाह्यक्रियामधिकृत्य, मोआगमभावाज्ञा, अंतर्वृत्या जीवपरिणामरूपायाः क्रियाया भावत्वेऽपि, बहिर्वृत्त्या शरीरपरिणामरूपायास्तस्या द्रव्यत्वाविरोघात्, एतच्चेत्थमेव, यद् यस्मात् श्रुते आवश्यकनिर्युक्त्यादिल
७८ तेषां बहुमानेनोन्मार्गानुमोदनाऽनिष्टफला । तस्मासीर्यकराशास्थितेषु युक्तः कुत्र बहुमान इति ॥
७९ चेलादि (शिष्यादि) विधाने तद्रतवित्तादिना च विज्ञेयः । तद्वृद्धिभावभावैस्तथा च द्रव्येतरविशेषः ॥