SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १९ पुरिसे देसाराहरू पण्णत्ते २७ " ॥ इति भागवतवचनादपरतन्त्रस्याप्यनन्यगत्या चारित्रमुपेयमिति भावः ||१६|| समाधत्ते — भन्नइ दव्वाराहणमेयं सुत्तं पहुच दट्टव्वं । सो पुण दव्वपयत्थो दुविहो इह सुत्तणीईए ॥ १६ ॥ भण्यतेऽत्रोत्तरं दीयते । एतच्छीलवतो अश्रुतवतो देशाराधकत्वप्रतिपादकं व्याख्याप्रज्ञप्तिसूत्रं द्रव्याराधनां बाह्यतपश्चरणाद्यनुष्ठानपालनाम्, प्रतीत्याश्रित्य द्रष्टव्यं निर्णेयम्, समुदयनिष्पन्नस्य पारतन्त्र्यरूपस्योभयासाधारण्येपि बाह्यक्रियात्वस्योभयसाधारणत्वेन देशखानपायात्, न खलु गुडादावपि समुदयनि ष्पन्नद्रवत्वविशेषादिरूपाभावेऽप्युभयदशासाधारणविवेच्याविवेच्यभा ववर्जितस्वादविशेषभावमात्रान्मदिरादिदेशत्वं व्याहन्यते । यदि च समुदायपृथग्भूते देशव्यवहारो नास्त्येवेत्यभिमानस्तदाऽस्तु त्रिषु मध्ये द्रव्यत एकपालनं पारिभाषिकमेव देशाराधकत्त्वम् । न चैवं श्रुतमात्र सम्पऽपि देशाराधकत्वप्रसङ्गः, तत्र प्राप्तदेशापालनतदप्राप्तान्यतररूपदेशविराधकत्वस्यैव परिभाषणात्, स्वतन्त्रपरिभाषाया अपर्यनुयोज्यत्वात्, तदाह भगवतीवृत्तिकारः – “देसविराहपत्ति" । देशं स्तोकमंशं ज्ञानदर्शनचारित्ररूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः प्राप्तस्य तस्यापालनादप्राप्तेर्वेति । न चैवं श्रुतवतो द्रव्यचारित्रप्राप्तौ सर्वाराधकत्वप्रसङ्गः, २७ इत्थं च तत्र यः स प्रथमः पुरुषजातः स पुरुषः शीलवान् अश्रुतवान् उपरतः अविज्ञातधर्म एष गौतम ! मया पुरुषः देशrराधकः प्रशप्तः ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy