________________
१४३
पूर्णार्थाप्रापकत्वात् तत्राप्रामाण्यमेव, तथा नापि तद्दष्टं स्वस्थानस्थम्, तथा चास्थानपतितत्वेन विरुद्धत्वाद् व्यवहारेणाप्यन्यवचनस्याप्रामाण्यमेवेत्यर्थः ॥१४१॥
___ अथ किं उत्सर्गस्थानं किं चापवादस्थानं किं चैतदस्थान यत्पतितत्वेनान्यवचनस्य विरुद्धत्वमित्याशङ्कायां भाष्यगाथामाहसंथरओ सट्टाणं उस्सग्गो असहुणो परटाणं । इय सट्ठाण परं वा ण होइ वत्थू विणा किंचि ॥१४२॥ ___संस्तरतो निस्तरतः उत्सर्गः स्वस्थानं, अपवादः परस्थानम् , असहस्यासमर्थस्य यः संस्तरीतुं न शक्नोति तस्यापवादः स्वस्थानमुत्सर्गः परस्थानम् , इति एवममुना प्रकारेण, पुरुषलक्षणे वस्तु विना न किञ्चित्स्वस्थानं परस्थानं वा किन्तु पुरुषो वस्तु संस्तरति न चेत्यतः पुरुषात् स्वस्थानं परस्थानं वा निष्पद्यते । न चासंस्तरन्तं पुरुषमधिकृत्यान्यवचने निषिद्धं पुनरपोधते किन्तु यदृच्छयैव, इत्यं च यद्भावेन विहिते प्रवृत्तिरव्यवच्छिन्नतभावेनैव न निषिद्ध सा दृश्यते, किन्तु तृष्णयैव अतृष्णामूलनिषिद्धप्रवृत्तेरुत्सर्गासहिष्णुतानियतत्वात् । तथा च मोक्षबीजस्य जिनवचनस्यान्यवचनसदृशतोमुकनं महदज्ञानविजृम्भितमेवेति भावः ॥१४२॥ ___ अथ बाधकापोद्यो नियम उत्सर्गों, बाधकविधिश्चापवाद इति विशेषविधिदर्शनात् सामान्यनिषेधे संकोचकल्पनात् परवचनेऽप्युत्सर्गापवादभावे न विरोध इत्याशङ्कायामाहबज्झकिरियाविसेसे ण णिसेहो वा विहीव संभवइ । जं सो भावाणुगओ तयत्थमंगीकया जयणा ॥१४३॥
बाह्यक्रियाविशेष शृंगग्राहिकया गृहीते, निषेधो विधिर्वा