SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ "रावाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ॥ इति । आप्तोक्तत्वं च महाजनपरिग्रहात्संवादिजातीयत्वाद्वा सुग्रहमिति विपश्चितमन्यत्र ॥ ४ ॥ ननु किमिह कालविलम्बोचितप्रयासकारिणा सूत्राभ्यासेनाहिंसोपायेनैव पिण्डविशुद्धयेषणादिना परिणामविशुद्धया निस्तारोपपतेस्तावन्मात्रपरिज्ञानस्य च स्वच्छन्दतयाऽप्युपपत्तेः किं गुरुकुलचासादिप्रयासेनेत्याशङ्क चारपरिणामोवि अणियमा आणाबज्झो ण सुंदरो भणिओ। तित्थयरे बहुमाणासग्गहदुट्ठोत्ति तंतंमि ॥ ५ ॥ आज्ञाबाह्यः स्वेच्छामात्रप्रवृत्तिः, परिणामोऽपि प्रस्तावाज्जीवरक्षणादिविषयशुभान्तःकरणपरिणतिरूपोऽपि, नियमाभिश्चयेन, न सुन्दरः कुशलानुबन्धी, भणितः प्रतिपादितः, तीर्थकरे आज्ञादातरि सर्वज्ञे, बहुः स्वात्मापेक्षया बलीयान् मानो नमनं बहुमानस्तद्विपरीतोऽबहुमानोऽभक्तिपरिणाम इति यावत् ततो योऽसङ्गइस्तदाहितविपर्ययवासनारूपस्तेन दुष्टः, इति हेतोः, तन्त्रे भगबस्प्रवचने । न हि यो बद्वचननिरपेक्षः प्रवर्त्तते स तत्र बहुमानवान् भवति । यथा कापिलादिः सुगतशिवादौ । जिनवचननिever गुरुकुलवासादिपरित्यागेन शुद्धपिण्डेषणादिकारी स्वच्छन्दसाधुरिति न भवति भगवद्बहुमानी, न च तद्वासनाविरहितः शुभोऽपि परिणामः परमार्थतः सुन्दरः पङ्काविलजलस्थानीयत्वेन विशुद्धचनङ्गस्वात् । यदाहु: " वचनाराधनया खलु धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १ ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy