________________
अत एवात्यन्तबालादेरशक्तस्य तदकरणेऽपि न प्रत्यवाय इति विभावनीयम् ॥१०॥ ... अथैकभक्ते उपवासवनैमित्तिकत्वमाशङ्क्य समाधत्तेननु कारणियं भणिअंजईण असणं जहोववासो ति। कह णिच्चमेगभत्तं भन्नइ णिचंपि तब्भावा ॥१०॥
नन्वित्याक्षेपे, कारणिकं भणितं यतीनामशनं यथोपवासस्तितिक्षादिभिः कारणैरनशनस्येवाशनस्यापि वेदनादिकारणैरेव स्थानांगे विधानात् । तथा च तदभिलाप:-"छहि ठाणेहिं समणे णिग्गंथे आहारमाहारेमाणे नाइक्कमइ तं० वेअणवेयावश्चेरियहाए अ संयमहाए तह पाणवत्तिआए छटुं पुण धम्मचिंताए ति२६ ॥ .
इति हेतोनिमित्तेन कर्त्तव्यतया नैमित्तिकत्वौचित्यात् कर्य नित्यमेकमक्तमुक्तम् । भण्यते, अत्रोत्तरं दीयते-नित्यमपि सर्वकालमपि तद्भावादशनकारणानां वेदनोपशमनवैयावृत्त्यादीनां सभावाभित्यमेकभक्तम् । अयं भावः-"अहोनिच्चं" इत्यादिसूत्रादेकमतस्य नित्यत्वे सिद्धे 'छहिं ठाणेहि' इत्यादिवत्रस्याशनाधिकारविधायकत्वमेवोनीयते नातिक्रामत्याज्ञामित्यतोऽनधिकृतत्वनिषेधस्यैव लाभात् , नित्यमधिकारवता क्रियमाणस्य च नित्यत्वाविरोध इति न कश्चिद्दोष इति । न च तथापि वैयावृत्त्यादिकर्मान्तरांगत्वेनास्वतन्त्रत्वान नित्यकर्मत्वमस्येति शङ्कनीयं, वैयावृत्त्यादिकं प्रत्यनियतोपकारकस्याप्यस्य तपःकर्मत्वेन स्वतन्त्रफलकस्य स्वतन्त्रतयैव विधानात् । तथापि फलवत्त्वेमास्य
२६ षड्मिः स्थानः श्रमणो निर्ग्रन्थ माहारमाहरन् नातिकमति ।
तद्यथा-वेदनवैयावृत्त्य र्थाय च संयमार्थाय तथा प्राणवृस्या षष्ठ पुनधर्मचिन्ता इति ॥