SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०२ 'च प्रमाणव्यवहारस्योपपत्तेः। न चैवमपि स्यान्नित्यमेव स्यादनित्यमेवेति च प्रासं, तत्राप्येवकाराविधारणबलाद् येनाकारण नित्यत्वं तेन नित्यत्वमेवेत्येकान्तत्वापत्तिरिति शङ्कनीयं, अनित्यत्वासंवलितस्य नित्यत्वव्यवच्छेदस्याप्रसिद्धेः, तत्संवलितस्य च तस्य सत्त्वे किश्चिदपेक्षया एकान्तसंवलितानेकान्तानपायात् , तथा चाह सम्मतिकारः भयणावि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई। : एवं भयणानियमो. वि होइ समयाविराहणया१८॥", न चैकावच्छेदेन नित्यत्वादिकमेवेत्येवमेकान्तप्राप्तिः, गुञ्जाफले कृष्णत्वरक्तत्वयोरिव नित्यत्वानित्यत्वयोः खंडशोऽनवस्थानात्, गुडगुंठीद्रव्ययोरिवैकगोलकीकृतयोस्तयोरेकलोलीभावेनैवावस्थानात्। एतेन द्रव्यार्थत्वादौ नित्यत्वाद्यवच्छेदकत्वमेवेत्येवमेकान्तापत्तिरपि निरस्ता, पररूपादिना तत्र तदभावाच्चेत्यन्यत्र विस्तरः। "समुच्छिन्जिहिति सत्यारा सव्वे पाणा अणेलिसा । गंठीगा वा भविस्संति सासयंति व णो वदे ॥४॥ सम्यग् निरवशेषतयोच्छेत्स्यन्ति सामस्त्येनोत्प्राबल्येन सेत्स्यन्ति सिद्धिं यास्यन्ति वा, शास्तारः सर्वज्ञाः, सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्यास्ततश्चोत्सन्नभव्यं जगत् स्यादित्येवं नो वदेव, तथा सर्वे प्राणिनोऽनीदृशाः परस्परं विलक्षणा एव, न ‘कयश्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत् , यदि वा सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारेऽनीदृशा अभव्या एव भवेयुरित्येवं नो वदेत्, तथा प्रन्थिकाः कर्मग्रन्थवन्त एव १८ भजनाऽपि खलु भक्तच्या यथा भजना भज्येत सर्वद्रव्याणि । एवं भजनानियमोऽपि भवति समयाधिगधनयां ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy