SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ व्याख्या - किञ्च 'नाऽपि' न सम्भाव्यतेऽत्र कश्चि नियमो'ऽवश्यम्भावो, यथा परे मन्यन्ते-“पुरुषः पुरुषत्वमश्नुते, पशवः पशुत्व" मित्यादिरूपः, प्रमाणबाधित्वात्, कर्मवैचित्र्येण भववैचित्र्योपपत्तेः, किं तर्हि ?, स्वकर्मविनिविष्टसदृशकृतचेष्टः परावर्तते जीव इति सम्बन्धः, तत्र क्रियत इति कर्म-ज्ञानावरणीयादि, स्वस्याऽऽत्मनः कर्म स्व कर्म, तस्य विनिविष्टं विनिवेशः, प्रकृतिस्थित्यनुभागप्रदेशात्मकं रचनमित्यर्थः, तस्य सदृशीतदनुरूपा कृता-निर्वर्तिता चेष्टा-देवादिपर्यायाध्यासरूपो व्यापारो येन स तथेति समासो, दृष्टान्तमाह 'अन्यान्यरूपो' नानाऽऽकारो 'वेषो' नेपथ्यवर्णकविच्छित्त्यादिलक्षणो यस्याऽसावन्यान्यरूपवेषः, कोऽसौ ?, नटः, स इव ‘परावर्तते' परिभ्रमति 'जीव' आत्मेति, तदिदं संसारेऽनवस्थितत्वमालोच्यं, तथा चोक्तं-श्रीआचाराङ्गे"से असई उञ्चागोए, असतिं नीयागोए, नो हिणे णो अतिरित्ते, णोऽपीहए, इति संखाय को गोयावादी ? को माणावादी ? कंसि वा एगे गिज्झे तम्हा पंडिए नो हरिसे णो कुज्झे" [एतट्टीका] “इति" संसार्यसुमान् 'असकृद्' अनेकश 'उच्चैर्गोत्रे' मानसत्कारार्हे, उत्पन्न इति शेषः, तथाऽसकृन्नीचैर्गोत्रे' सर्वलोकावगीते, पौनःपुन्येनोत्पन्न इति, तथाहि नीचैर्गोत्रोदयादनन्तमपि कालं तिर्यक्ष्वास्त इति, स चाऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावर्तानिति xxx तदेवमुञ्चावचेषु गोत्रेष्वसकृदुत्पद्यमानेनाऽसुमता x x x न मानो विधेयो नाऽपि दीनतेति, तयोश्चोञ्चावचयोर्गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह- “णो हीणे णो अतिरित्ते" यावन्त्युचैर्गोत्रेऽनुभावबन्धाध्य-वसायस्थानकण्डकानि, नीचैर्गोत्रेऽपि तावन्त्येव, तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयोभूयः स्पर्शितानि, तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाऽप्यतिरिक्तः, एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति, xxx यतश्चोञ्चावचेषु स्थानेषु कर्मवशादुत्पद्यन्ते, बलरूपलाभादिमदस्थानानां चाऽसमञ्जसतामवगम्य किं कर्तव्यमित्याह-“णोऽपीहए", 'अपिः' सम्भावने, स च भिन्नक्रमो, जात्यादीनां मदस्थानानामन्यतममपि 'नो ईहेताऽपि, नाऽभिलषेदपि, अथवा नो स्पृहयेन्नाऽवकाङ्क्षदिति, तत्र यद्युञ्चावचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किमित्याह-“इति संखाय" इत्यादि, इतिरुपप्रदर्शने, इत्येतत्पूर्वोक्तनीत्योञ्चावचस्थानोत्पादादिकं 'परिसंख्याय' ज्ञात्वा को गोत्रवादी भवेद् ?' यथा ममोञ्जेगोत्रं ३४ वैराग्यशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy