________________
कदाचित्समुद्रमध्ये उषितं, कदाचिद्वृक्षाग्रेषु चोषितं, अनवस्थितत्वाज्जीवस्य ।।५७।। किञ्चाऽयमात्मा नटवदपरापररूपैः परावर्तते, ततः कः कुलाभिमानावकाश ? इत्याह -
गाथा - देवो नेरइओ ति य, कीडपयंगों त्ति माणुसो एसो ।
रुवस्सी य विरूवो, सुहुभागी दुक्खभागी य ।।५८।।
व्याख्या - 'देवो' विबुधो, नारकः प्रतीत एव, इति शब्दाः सर्वे उपप्रदर्शनार्थाश्च शब्दाः
समुच्चयार्थाः स्वगतानेकभेदसूचका वा, तथा 'कीट:' कृम्यादिः, 'पतङ्गः' शलभस्तिर्यगुपलक्षणं चैतन् ‘मानुषः' पुमान्, एष जीवः, परावर्तत इति सर्वत्र क्रिया, “रूवस्सि"त्ति कमनीयशरीरो ‘विरूपो' विशोभः ‘सुखं' सातं भजते तच्छीलश्चेति सुखभागी, एवं दुःखभागी ।।५८।।
गाथा - राउत्तिय दमगो त्ति य, एस सपागो त्ति एस वेयविऊ ।
सामी दासो पुजो, खलोत्ति अधणो धणवइत्ति ।।५९।। व्याख्या - तथा 'राजा' पृथिवीपतिर्द्रमको' निःस्व, एष जीवः ‘श्वपाक श्चाण्डाल:
तथैष एव 'वेदवित्' सामादिवेदानां वेत्ता-प्रधानब्राह्मण इत्यर्थः, असकृदेषशब्दग्रहणं पर्यायनिवृत्तावपि जीवद्रव्यस्याऽनुवृत्तिज्ञापनार्थं, एष एवैको नानारूपेष्वेवं परावर्तते न सर्वथाऽन्यो भवतीत्यर्थः, तथा 'स्वामी' स्वपोष्यापेक्षया नायको, 'दासो' व्यक्षरकः, 'पूज्यो' अभ्यर्चनीय-उपाध्यायादिः, 'खलो' दुर्जनो, 'अधनो' निर्द्रव्यो,
'धनपति'रीश्वरः ।।५९।। गाथा - नवि इत्थ कोइ नियमो, सकम्मविणिविट्ठसरिसकयचिट्ठो ।
अन्नान्नरूववेसो, नडोव परिअत्तए जीवो ॥६०।।। १. नेरइउ इत्यपि पाठः । कीडपयंगु इत्यपि पाठः । ३. दमगु इत्यपिपाठः । ४. सपागु
इत्यपि पाठः ५. अन्नुन्नरूववेसी नडुब्ब इत्यपि पाठः ।
३३
वैराग्यशतकम्