________________
व्याख्या : कलमलो= लाम्पट्यात्तदप्राप्तौ चित्तक्षोभः अरतिर्गादं चित्तक्षोभः, अबुभुक्षा
तत्तचिन्ताव्याकुलितान्तरत्वादरोचकम, व्याधिरादिसम्भवः, दाहस्तापोद्रेक: आदिशब्दान्मूर्छाद्यसुखानि, न केवलमेतानि जायन्ते मरणं= प्राणत्यागोऽपि, हुरवधारणे' कामसन्तप्तस्य विरहादिषु स्त्रीवियोगादिषु सम्पद्यन्ते मरणान्ता दशाऽप्यवस्थाः प्राणी स्मरातुरतयाऽनुभवति । यदुक्तम् - प्रथमे त्वभिलाषः स्याद् द्वीतीये ह्यर्थचिन्तनम् । अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ।। ।।१।। उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेद् व्याधिरथाष्टमे ।। ।।२।। नवमे जडता प्रोक्ता दशमे मरणं भवेत् । तथा च - सव्याधेः कृशता, क्षतस्य रुधिरं, दष्टस्य लालास्रुतिः, सर्वं नैतदिहास्ति तत्कथमसौ पान्थो वराको मृतः ? आ ज्ञातं मधुलम्पटैर्मधुकरैराबद्धकोलाहले, नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ।। इति गाथार्थः ।।७३।।
गाथा : पंचिंदिय विसय पसंगरेसि, मणवयणकाय नवि संवरेसि ।
तंवाहिसि कत्तिय गल पएसिजं अट्ठ कम्म नवि निजरेसि ।।७४।। व्याख्या : अथ ग्रन्थकार आत्मानमेवानुशास्ति रे जीव पंचिंदियविसय पसंगरेसीत्यत्राक्षरच्युतकम्, करेसीत्यवसेयम् ।
अथ ग्रन्थकार आत्मानमेवानुशास्ति रे जीव पंचिंद्रियविसय पसंगरेसीत्यगाक्षरच्युतकम्, करेसीत्यवरेयम् ।। *नैषधेऽपि निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि" इत्यत्र वसुधामपि, इतिवत् । पञ्चेन्द्रियाणि विषयाश्च तेषु प्रसङ्गमासक्तिं यत् करोषि
विदधासि । तथा मनोवचःकायांश्च यन्न संवृणोषि मनोवाक्कायव्यापारान् १. स्तापोद्रेकः आदौ येषां, मूर्छादीनां एवंविधानि यानि दुःखानि मूर्छादिरूपानेकसुखानि न
केवलमेतानि ... ड। २. सुरवश्यं ख । ३. इति यत् ड। * श्री हर्षप्रणीतम् श्रीनैषधीयचरितमहाकाव्यम् ।
१५१ इन्द्रियपराजयशतकम्