________________
किन्तुब्रवीमिकृतिनांपुरतःप्रसह्य कन्दर्पदर्पदलनेविरलामनुष्याः।।१।। [शुङ्गारशतक गाथा-५९परपित्यध्याहार्यम्, 'णियचेयचियञ्च अवधारणे' (सिल ८-२-१८४) इतिचियइतिगाथार्थः ।।७१।।
गाथा : विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं ।
अइदुज्जेयाणि य इंदियाइं तह चंचलं चित्तं ।।७२।। अत्र ग्रन्थ इयमग्रिमा गाथा 'थेवमसार' मित्यादिरूपा नाऽलेखि, परं सम्बन्धानुवृत्त्या वृत्तिकारेण लिख्यतेथेवमसारं सत्तं, मोहणवल्ली अ महिलियाओ वि । इइ कहवि चलिअचित्तो, ठावए एवमप्पाणं ।। युग्मम् ।।
व्याख्या : जीवानां प्राणिनामनादिभवभावनयाऽभ्यस्तत्वेन विषमा विषयपिपासा
दुस्तरा भोगतृष्णा अति दुर्जेयानि चेन्द्रियाणि तथा चञ्चलं चित्तं चपलं नोइन्द्रियम् । ननु सत्त्वेन तृष्णां निरोत्स्यन्तीत्याहः- 'थेव' मिति स्तोकमत्यल्पम्, असारं क्षणभङ्गरं, सत्त्वं चित्तधाष्ट्र्यं महिलाश्च स्त्रियो मोहनवल्लयः स्वभावेनैव मोहोत्पादिका इति= एवंप्रकारैश्चलितचित्तः प्राणी, कथमपि, एवं पूर्वोक्तस्त्रीसंसर्गवर्जनभङ्गयाऽऽत्मानं स्थापयेत् । शीलभङ्गं न प्राप्नोतीत्यर्थः ।।७२।।
गाथा : कलमल-अरइ-अभुक्खा,-वाही-दाहाइ-विविहदुक्खाई ।
मरणं पि हु विरहाइसु, संपजइ कामतविआणं ।।७३।।
१. व्याणि इंदियाणि मुद्रिते । असुक्खं मुद्रिते । ३. मरणं पि अ विरहा... डड ड, ।
१५० इन्द्रियपराजयशतकम्