________________
धिक्धिक् धैर्येण वीर्येण शौर्येण यशसाऽपि च । लीलया निर्जितो योऽहं हन्त पत्युत योषिता ।। ।।७।। मन्त्र्यूचे न विषत्तव्यं प्रतापोऽयं तवैव यत् । माहात्म्यं तद्रवेर्ध्वान्तं यत्तिरस्कुरुतेऽरुणः ।।७१।। परं वैराग्यमापद्य दत्त्वा राज्यं सुतस्य च । दीक्षामादाय राजेन्द्रः परमार्थमसाधयत् ।। ७२ ।। ईदृशोऽपि प्रचण्डात्मा रिपुमर्दनभूपतिः । दासत्वं कारितः पन्या परेषां गणना तु का ।। ।।७३।।
इति स्त्रीदासत्वे रिपुमर्दननृपकथा ।। ६८।। गाथा : जउनंदणो महप्पा, जिणभाया वयधरो चरमदेहो ।
रहनेमि 'राइमई-रायमई कासि ही विसया ।।६९।। व्याख्या : यदुनन्दनः श्रीसमुद्रविजयनरेन्द्रसूनुः महात्मा उपशान्तचित्तः जिनभ्राता
श्रीमनेमिजिनलघुबान्धवः व्रतधरो गृहीतदीक्षः चरमदेहस्तद्भव एव मोक्षगामी एवंविधोपि रथनेमी राजीमती रागमतीश्चकार । राजीमत्यां श्रीमदुग्रसेनात्मजायां रागोनुरागश्चेतः क्षोभस्तस्मिन्मतीः बुद्धीश्चक्रे । ही विषया इन्द्रियविकाराः खेदावहा दुर्लक्याः । को भावः ? यविषयैरेवंविधोपि रथनेमिर्विकाराकारतां प्रापितः । ते विषयाः केन जेतुं शक्यन्त इति गाथार्थः । भावार्थः कथानकगम्यस्तञ्चेदम् - राज्यं राजीमतिं चापि परित्यज्य विरक्तधीः । द्वाविंशः श्रीजिनो नेमिः प्रपन्नो रैवते व्रतम् ।।१।। रथनेमिर्लघुभ्राता पाणिग्रहणलिप्सया । राजीमतिं प्रति प्रेषीत्प्राभृतानि प्रसत्तये ।।२।। प्राभृतं प्रेषयत्येव स्वभ्रातुः प्रेमतो मयि । इति तत्स्नेहतः साऽपि निर्विकल्पतयाऽग्रहीत् ।।३।। विवाहाकाङ्क्षयान्येद्युः प्रार्थयन्तं नृपाङ्गजा । मदनं फलमाघ्राय वमित्वेति तमब्रवीत् ।।४।।
१. रायमई रायमई मुद्रिते।
१४६ इन्द्रियपराजयशतकम्