________________
गाथा - मायापियबंधूहिं, संसारत्थेहिं पूरिओ लोओ ।
बहुजोणिनिवासीहिं, न य ते ताणं च सरणं च ।।१९।।
व्याख्या - ‘बहुयोनिनिवासिभि'श्चतुरशीतिलक्षप्रमाणयोनिवासिभिः, 'संसारस्थै' भव
स्थितैर्मातापितृबन्धुभिरयं लोकः 'पूरितो' भृतः, अमी जन्तवः सर्वेऽपि कदाचिन्मातृत्वेन कदाचित्पितृत्वेन कदाचिद्वन्धुत्वेन जाता इति, न च ते संसारस्था मात्रादयस्त्राणं भवन्ति, आपत्तरणसमर्थं त्राणमुच्यते, यथा महास्रोतोभिरुह्यमाणः सुकर्णधाराधिष्ठितं प्लव(पोत)- मासाद्याऽऽपस्तरतीति, न च ते शरणं भवन्ति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते, तत्पुनर्दुर्ग पर्वतः पुरुषो वेति, तथाऽत्र न कश्चिदस्तीति, उक्तं च“जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते ।। जिनवचनादन्यत्र तु नास्ति [च] शरणं क्वचिल्लोके ।।१।।" ।।१९।।
गाथा - जीवो वाहिविलुत्तो, सफरो इव निज्जले तडप्फडए ।
सयलो विजणो पिच्छइ, को सक्को वेयणाविगमे ? ।।२०।।
व्याख्या - जीवो 'व्याधिभी' रोगैः ‘विलुप्तोऽभिद्रुतो 'निर्जले' जलरहितप्रदेशे 'शफर
इव' मत्स्य इव "तडप्फडए” त्ति आकुलीभवति, तथाविधं रोगैः पीड्यमानं जनं सकलोऽपि जनः ‘पश्यति' अवलोकते, परं तस्य 'वेदनायाः' पीडायाः, 'विगमे' विनाशे, कः पुरुषः ‘शक्तः' समर्थः ?,
अपि तु न कोऽपि तत्पीडामपगमयतीत्यर्थः ।।२०।। गाथा - मा जाणसि जीव ! तुम, पुत्तकलत्ताई मज्झ सुहहेउ ।
निउणं बंधणमेयं, संसारे संसरंताणं ।।२१।। १. पुत्तकलत्ताइ मज्झ सुहहेऊ इत्यपि पाठः ।
९
वैराग्यशतकम्