SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ यथा वेत्सि तथा वत्स!, वत्सं भोजय मे शिवम् । त्वया चैवं कृतवता, किं किं नोपकृतं मम ? ।।६।। मज्जीवपक्षिणं कायकुलायाद् गन्तुमुत्सुकम् । प्रत्याशापाशबन्धेन, नियन्त्रय महाशय! ।।६१।। दृढधर्मोऽपि तामाज्ञामुररीकृत्य भूपतेः । ययौ शिवकुमारस्याभ्यणे बुद्धिजलार्णवः ।।६२ ।। कृत्वा नैषेधिकीं तस्य, सदनान्तः प्रविश्य च । क्रमज्ञः प्रतिचक्राम, स एर्यापथिकी सुधीः ।।६३।। वन्दनं द्वादशावर्त, दत्त्वा भूमिं प्रमाय॑ च । निषसाद वदन्नुञ्चैरनुजानीहि मामिति ।।६४।। शिवोऽवददहो इभ्य ! साधूनामुपसागरम् । विनयोऽयं मया दृष्टः, स कथं मयि युज्यते ? ।।६५ ।। इभ्यपुत्रोऽभ्यधात् सम्यग्दृष्टीनां यत्र कुत्रचित् । समभावो हि योग्यः स्यात्, सर्वस्य विनयस्य भोः ! ।।६६।। यस्य कस्यापि हि स्वान्तं समभावाधिवासितम् । स वन्दना: भवति, दोषाशङ्कापि नेह भोः ! ।।६७ ।। कुमार ! किंतु पृच्छामि, प्रष्टुमेवाहमागमम् । रसज्वरातुरेणेव किं त्वयाऽत्याजि भोजनम् ।।६८।। शिवोवदद्विसृजतो, व्रताय पितरौ न माम् । ततो भावयतीभूय स्थितोऽस्मि विरतो गृहात् ।।६९।। यथा ह्युद्विज्य पितरौ, विहाय ममतां मयि । व्रतार्थमादिशतो मामतः कुर्वे न भोजनम् ।।७०।। इभ्योऽभ्यधत्त यद्येवं, तद्भुञ्जीथा महाशय ! । धर्मो ह्यधीनो देहस्य, देहश्चाहारसम्भवः ।।७१।। आहारं निरवद्यं हि, गृह्णन्त्यपि महर्षयः । शरीरे तु निराहारे, दुष्करा कर्मनिर्जरा ।।७२ ।। कुमारोऽप्यभ्यधादिभ्यसूनो सम्पद्यते मम । नाहारोऽप्यनवद्योऽत्रेत्यस्माद्वरमभोजनम् ।।७३।। १. क्रमशः खडड, ड । ८१ इन्द्रियपराजयशतकम्
SR No.023146
Book TitleVairagyashatak Indriyaparajayshatak
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSangmarg Prakashan
Publication Year2002
Total Pages338
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy