________________
जयदेवो मुदितमनाः, सम्पूर्णमनोरथः प्रणतिपूर्वम् । चिंतामणिं गहित्ता, नियनयराभिमुहमह चलिओ ।।३४ ।। मणिमाहात्म्यादुल्लसितवैभवः पथि महापुरे नगरे । रयणवइनामधूयं, परिणीय सुबुद्धिसिट्ठिस्स ।।३५ ।। बहुपरिकरपरिकरितो, जननिवहैर्गीयमानसुगुणगणः । हत्थिणपुरम्मि पत्तो, पणओ पियराण चलणेसु ।।३६ ।। [युग्मम् ।। अभिनन्दितः स ताभ्यां, स्वजनैः सम्मानितः सबहुमानैः । थुणिओ सेसजणेणं, भोगाणं भायणं जाओ ।।३७।। ज्ञातस्यास्योपनयोऽयमुच्चकैरमरनरकतिर्यक्षु । इयरमणीण खणीसु व, परिब्भमंतेण कह कह वि ।।३८ ।। जीवेन लभ्यत इयं, मनुजगतिः सन्मणीखनीतुल्या । तत्थ वि दुलहो चिंतामणिव्व जिणदेसिओ धम्मो ।।३९ ।। पशुपालोऽत्र यथा खलु, मणिं न लेभेऽनुपात्तसुकृतधनः । जह पुण्णवित्तजुत्तो, वणिपुत्तो पुण तयं पत्तो ।।४०।। तद्वद्गतगुणविभवो, जीवो न लभते धर्मरत्नमिदम् । अविकलनिम्मलगुणगणविहवभरो पावइ तयं तु ।।८१।। (श्रीधर्मरत्नप्रकरणवृत्तौ श्रीदेवेन्द्रसूरिकृतायां) ।।९५ ।।
गाथा - जह दिट्ठीसंजोगो, न होइ जगंधयाण जीवाणं ।
तह जिणमयसंजोगो, न होइ मिच्छंधजीवाणं ।।१६।। व्याख्या - यथा 'जात्यन्धानां' आजन्मतोऽन्धीभूतानां 'जीवानां' प्राणिनां
'दृष्टिसंयोग' श्चक्षुस्सम्बन्धो न भवति, तथा 'मिथ्यात्वेन' कुवासनया 'अन्धा' विवेकविकला ये जीवास्तेषां 'जिनमतस्य' श्रीजिनशासनस्य
'संयोगः' प्राप्तिर्न भवति ।।१६।।। गाथा - पञ्चक्खमणंतगुणा', जिणिंदधम्मे न दोसलेसोऽवि ।
तहवि हु अनाणंऽधा, नरमंति कयावि तम्मि जिया ।।१७।। १. गुणे इत्यपि पाठः ।
५७ वैराग्यशतकम्