SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३९० अथ स्थानमुक्तासरिका तत्परिणामश्चाभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवति, स चेन्द्रियपरिणामः श्रोत्रादिभेदात् पञ्चधा, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागपरिणतिरिति कषायपरिणामः स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामे सति लेश्यापरिणतिर्न तु लेश्यापरिणतौ कषायपरिणति, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद्भवति, स च लेश्यापरिणाम: कृष्णादिभेदात् षोढा, अयञ्च योगपरिणामे सति भवति यतो निरुद्धयोगस्य लेश्यापरिणामोऽपैति, स योगपरिणामो मनोवाक् कायभेदाविधा, संसारिणाञ्च योगपरिणतावुपयोगपरिणतिर्भवति स च साकारानाकार भेदाद्विधा, सति चोपयोगपरिणाम ज्ञानपरिणामो भवति स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टेनिमप्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्यः । ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति दर्शनपरिणामः, स च त्रिधा सम्यक्त्वमिथ्यात्वमिश्रभेदात्, सम्यक्त्वे सति चारित्रपरिणामः, स च सामायिकादिभेदात् पञ्चधा, स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यतोऽवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टेति वेदपरिणाम उक्तः स च स्त्र्यादिभेदात्त्रिविध इति । अजीवानां परिणामाश्च-बन्धनं-पुद्गलानां परस्परं सम्बन्धः संश्लेषरूपः, स एव परिणामः एवं सर्वत्र, तल्लक्षणञ्च 'समस्निग्धतया बन्धो न भवति समरूक्षतयापि न भवति । विमात्रस्निग्धरूक्षत्वेन बन्धस्तु स्कन्धानामि'ति, एतदुक्तं भवति समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षेण, यदा विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थमुच्यते "स्निग्धस्य स्निग्धेन द्विकाधिकेन रूक्षस्य रूक्षेण द्विकाधिकेन । स्निग्धस्य रूक्षेणापैति बन्धो जघन्यव| विषमः समो वा ॥' इति, गतिपरिणामो द्विविधः स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते गतिमद्र्व्याणां प्रयत्नभेदोपलब्धेः, तथाहिअभ्रङ्कषहर्म्यतलगतविमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानाञ्च देशान्तरप्राप्तिकालभेदश्चेत्यतः संभाव्यतेऽस्पृशद्गतिपरिणामः, अथवा दीर्घहस्वभेदाद्विविधोऽयम् । संस्थानपरिणामः परिमण्डलवृत्तत्र्यस्रचतुरस्रायतभेदात् पञ्चविधः, भेदपरिणामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव, प्रतरभेदोऽभ्रपटलस्येव, अनुतटभेदो वंशस्येव, चूर्णभेदचूर्णनम्, उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति । वर्णपरिणामः पञ्चधा, गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा, स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्व
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy