SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ३०० अथ स्थानमुक्तासरिका संयताधिकारादाह उद्गमोत्पादनैषणापरिकर्मपरिहरणभेद उपघातः, तथा विशुद्धिः, अर्हतां तद्धर्मस्याचार्योपाध्याययोः संघस्य विपक्वतपोब्रह्मचर्याणामवर्णवादिनः कर्मणो बन्धका वर्णवादिनश्च शुभस्य ॥१५६॥ उद्गमेति, उपघातोऽशुद्धता, तत्रोद्गमोपघात उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्त पानोपकरणालयानामशुद्धता, उत्पादनया-उत्पादनादोषैः षोडशभिर्धात्र्यादिभिरशुद्धता, एषणयातद्दोषैः शङ्कितादिभिरशुद्धता परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेनाशुद्धता, तद्यथा 'तिसृणामुपरि थिग्गलिकानां वस्त्रे यः थिग्गलिकां तु संसीव्येत् । पञ्चविधानामेकतरस्मिन् स प्राप्नोत्याज्ञादीनि ॥' इत्यादि, परिहरणा-आसेवा उपध्यादेस्तयाऽशुद्धता, यथा-एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयप्रसिद्धिरेव वसत्यादेरपि चिन्त्यम् । एवं विशुद्धयोऽप्युद्गमादिभिर्भक्तादीनां कल्प्यतारूपा विज्ञेयाः । उपघातविशुद्धिवृत्तयश्च जीवा निर्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्तन्त इति कर्मबन्धनस्थानान्याह अर्हतामिति, अर्हतामवर्णनश्लाघां वदन्तीति अवर्णवादिनः । यथा 'नास्त्यर्हन् जानानो वा कथं भोगान् भुनक्ति । प्राभृतिकां वोपजीवतीत्यादि तु जिनानामवर्णः' इत्यादि । उत्तरमत्र न च ते नाभूवन्, तत्प्रणीतवचनोपलब्धेः, नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य । तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति । तत्प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्यावर्णवादी यथा प्राकृतभाषानिबद्धमेतत्तथा किं चारित्रेण दानमेव श्रेय इत्यादि, उत्तरञ्चात्र प्राकृतभाषात्वं श्रुतस्य न दोषो बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयः निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन्, यथा बालोऽयमित्यादि, उत्तरञ्च न च बालत्वादिर्दोषः, बुद्ध्यादिभिर्वृद्धत्वादिति । तथा संघस्य श्रमणादिचतुर्वर्णस्यावर्णं वदन्, यथा-कोऽयं संघो यः समवायबलेन पशुसंघ इवामार्गमपि मार्गीकरोतीति प्रतिविधानञ्च न चैतत्साधु, तस्य ज्ञानादिगुणसमुदायात्मकत्वात्तेन च मार्गस्यैव मार्गीकरणादिति । तथा विपक्वं सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः, तपश्च ब्रह्मचर्यञ्च भवान्तरे येषाम्, विपक्वं वोदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादिकर्म येषां ते तथा, तेषामवर्णं वदन् यथा-न सन्त्येव देवाः, कदाचनाप्यनुलभ्यमानत्वात्, किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैर्निनिमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिरित्यादि, इहोत्तरन्तु सन्ति देवास्तत्कृतानुग्रहोपघातादि
SR No.023130
Book TitleSutrarth Muktavali Part 02
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages586
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy