SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार भयसमवतारभेदतस्त्रिविधः । अयं भावः, निखिलानि द्रव्याण्यात्मसमवतारेण निश्चयतश्चिन्त्यमानानि आत्मभावे स्वकीयस्वरूप एव वर्तन्ते, तेषां ततोऽव्यतिरेकात्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति यथा कुण्डे बदराणि, तदुभयसमवतारेण च स्वात्मभावे परस्मिंश्च वर्तते, यथा कटकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्त्तते, आत्मभावे च तथैव दर्शनात् । कुण्डे बदराणीत्यत्र परभावे समवतारवर्णनं स्वात्मभावे वर्तमानताया विवक्षामकृत्वैव, कुण्डादौ वर्तमानानां बदरादीनां स्वात्मन्यपि वृत्तेः। शुद्धस्तु परसमवतारो नास्त्येव तस्माद्वस्तुतस्तदुभयव्यतिरिक्तद्रव्यसमवतारो द्विविध एव । क्षेत्रसमवतारोऽपि आत्मतदुभयभेदेन द्विविधः, भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरो बृहत्क्षेत्रे समवतारो भाव्यः, अत्रापि सर्वेषां क्षेत्रविभागानां स्वस्वरूपेऽवस्थानमात्मसमवतारः, एवं कालसमवतारोऽपि द्विविधो लघुभूतसमयादिकालविभागस्य बृहति कालविभागे आवलिकादौ समवतारः स्वपरसमवतारः स्वस्मिन्नेव समवतारस्तु आत्मसमवतारः । भावसमवतारोऽपि द्विविधः, क्रोधस्य माने समवतारो विनाऽहंकारं क्रोधासंभवा, मानवानेव किल कुप्यति, मानस्य मायायां, क्षपणकाले मानदलिकस्य मायायां प्रक्षिप्य क्षपणात्, मायाया लोभे, अस्या अपि तथात्वात्, लोभस्य रागे, लोभात्मकत्वाद्रागस्य, रागस्य मोहे, तस्य मोहविशेषत्वात्, मोहस्याष्टसु कर्मप्रकृतिषु, मोहस्य कर्मप्रकारत्वात्, तासामपि औदयिकादिषड्भावेषु, तासां तद्भाववृत्तित्वात्, भावाश्च जीवे, तदाश्रितत्वात्, जीवोऽपि जीवास्तिकाये, तद्भेदत्वात्, सोऽपि समस्तद्रव्यसमुदाये समवतरति द्रव्यभेदत्वात् । एते सर्वेऽप्यात्मसमवतारेणात्मभावेषु समवतरन्तीति ॥२४॥ અંતિમ શાસ્ત્રીય ભેદ એવા સમવતારને કહે છે – નામ વિગેરેથી સમવતાર છ પ્રકારે છે. નામ વિગેરેમાં આદિ શબ્દથી સ્થાપના-દ્રવ્ય-ક્ષેત્ર-કાલ-ભાવનું ગ્રહણ કરવું. આ વિરોધથી વર્તવું તે સમવતાર, વસ્તુઓને સ્વ-પર અને ઉભયમાં આંતર્ભાવનું ચિંતન તે સમવતાર છે. તે નામ વિગેરેના ભેદથી છ પ્રકારે છે. ભવ્ય શરીર દ્રવ્ય સમવતાર સુધી પહેલાની જેમ જાણવું. તદુભય વ્યતિરિક્ત સમવતાર ત્રણ ભેદથી છે. આત્મસમવતાર, પરસમવતાર અને ઉભય સમવતાર આ ભાવ છે. સર્વ દ્રવ્યો આત્મ સમવતારથી નિશ્ચયથી વિચારતા આત્મભાવોમાં પોતાના સ્વરૂપે જ રહે છે. (વર્તે છે.) કારણ કે, તે સર્વ દ્રવ્યો આત્માથી અવ્યતિરિક્ત છે. વ્યવહારથી તો પરસમવતારથી
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy