SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः वीक्षितास्तदा यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः पुरुष एतदाकारवानेव, एतत्स्थानीयपुरुषत्वात्, अपराकारत्वे तद्धानिप्रसङ्गादश्वादिवदिति । द्वितीयं यथा कोऽपि कञ्चन पुरुषं क्वचिदृष्ट्वा तद्दर्शनाहितसंस्कारोऽसंजातत्प्रमोषस्समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमुपलभ्य मानयति यः पूर्व मयोपलब्धस्स एवायं पुरुष:, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । सदृशवस्तुग्राहकमुपमानं साधर्म्यापनीतवैधर्म्यापनीतभेदतो द्विविधम्, उभयमपि किञ्चित्साधर्म्येण वैधर्म्येण वोपनीतं, प्रायः साधर्म्येण तद्वैधर्म्येण वोपनीतं, सर्वसाधर्म्येण तथाविधवैधर्म्येण वोपनीतमिति त्रिविधम्, किञ्चित्साधर्म्येणोपमानोपमेयभावः मूर्त्तत्वेन मन्दरसर्षपयोः सोदकत्वमात्रेण समुद्रगोष्पदयोरित्यादि, प्रायस्साधर्म्येण गोगवययोः खुरककुदविषाणलाङ्गूलादिभ्यः, एषामुभयोस्समानत्वात्, सकम्बलत्वाद्गोः वृत्तकण्ठत्वाद्गवयस्य प्रायः साधर्म्यं बोध्यम्, सर्वसाधर्म्येण अर्हता अर्हत्सदृशं कृतमित्यादि । किञ्चिद्वैधर्म्यात् यादृशः शाबलेयो न तादृशो बाहुलेयो यथा चायं न तथेतर इत्यादि, अत्र च शेषधर्मैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधर्म्यम् । प्रायोवैधर्म्याद्यथा वायसो न तथा पायसः, यथा च पायसो न तथा वायस इति, अत्र संचेतनत्वाचेतनत्वादिभिर्बहुभिर्धर्मैर्विसंवादात् शब्दगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायो वैधर्म्यम् । सर्ववैधर्म्यन्तु न कस्यचित्केनापि सम्भवति, सत्त्वप्रमेयत्वादिभिस्सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, किन्तु नीचेन नीचसदृशं गुरुघातादिकृतमित्युदाहरणम्, न च सादृश्यस्यैवेदं निदर्शनं न वैधर्म्यस्येति वाच्यम्, नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचस्ततस्सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधम्र्योक्तेः । लौकिकलोकोत्तरभेदेनागमो द्विविधः सूत्रार्थतदुभयागमभेदेन, आत्मागमानन्तरागमनपरम्परागमभेदेन वा त्रिविधस्सः । मिथ्यादृष्टिसंदृब्धो भारतादिर्लौकिकः, अर्हदादिभिः प्रोक्तो लोकोत्तरः । सूत्रमेव सूत्रागमः, तदर्थश्चार्थागमः सूत्रार्थोभयरूपस्तु तदुभयागमः । विना गुरूपदेशेनात्मन एवाऽऽगम आत्मागमो यथा तीर्थंकराणामर्थस्यागमः, स्वयमेव केवलेनोपलब्धेः । गणधराणां सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वात्, अर्थस्य त्वनन्तरागमोऽनन्तरमेव तीर्थकरादागतत्वात् । गणधर शिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य गणधरेण व्यवहितत्वात् परम्परागमः । तत ऊर्ध्वकालीनानां सर्वेषां सूत्रस्यार्थस्य नात्मागमो नानन्तरागमो वा किन्तु परम्परागम एवेति । दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं ५८
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy