SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार નિષ્પન્ન એવો પણ જે શસ્ત્ર છેદ-અગ્નિદાહ વિગેરેનો વિષય થતો નથી. હજુ પણ તેવા પ્રકારની સ્થૂલતાને નહિ પામેલો હોવાના કારણે તેને વ્યવહારનય પરમાણુ તરીકે કહે છે. આઠ પરમાણુથી એક શ્લષ્ણ શ્લણિકા આઠ ગ્લણથી એક ઉર્ધ્વરેણુ, આઠ ઉર્ધ્વરેણુથી એક ત્રસરણ, આઠ ત્રસરેણુથી એક રથરેણુ વિગેરે જાણવું. હજાર ઉત્સધાંગુલથી ગુણાયેલ એક પ્રમાણાંગુલ થાય છે અથવા પરમ પ્રકર્ષ સ્વરૂપ પ્રમાણને પામેલ એવું અંગુલ તે પ્રમાણાંગુલ, આનાથી મોટું અંગુલ છે નહિ અથવા તો સમસ્ત લોકના વ્યવહાર રાજય વિગેરેની સ્થિતિના પ્રથમ પ્રણેતા તરીકે પ્રમાણભૂત આ અવસર્પિણી કાલમાં તો યુગાદિદેવ અથવા ભરત છે એના અંગુલ તે પ્રમાણાંગુલ, અહીં વિશેષ અનુયોગદ્વારમાંથી જાણવું. अथ कालस्य परिच्छेदकं दर्शयति-- निर्विभाज्यकालभागः प्रदेशः समयावलिकोच्छवासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रपक्ष- मासर्वयनसंवत्सरयुग-पूर्वाङ्गादयो विभागः कालस्य ॥१८॥ निविभाज्येति, कालस्य निविभागा ये भागास्तैरेकादिक्रमेण निष्पन्नः परमाणुः स्कन्धो वा, एकसमयस्थितिकमारभ्य यावदसंख्येयसमयस्थितिकः प्रदेशनिष्पन्नो भाव्यः, समयेति, समयः परमसूक्ष्मः कालः, समयानां समुदायादावलिकैका, संख्येयावलिकाभिरुच्छ्वासः, संख्येयावलिकाभिश्च निःश्वासः तुष्टस्य जराऽपीडितस्य व्याध्यनभिभूतस्य च जन्तोरेक उच्छासयुक्तो निःश्वास एकः प्राणः, सप्त प्राणा एकस्स्तोकः सप्त स्तोका एको लवः, सप्तसप्ततिलवा मुहूर्तः, त्रिंशता मुहूर्तेरहोरात्रं, पञ्चदशभिस्तैः पक्षः ताभ्यां द्वाभ्यां मासः, मासद्वयेन ऋतुः, ऋतुत्रयमानमयनं, अयनद्वयेन संवत्सरः पञ्चभिस्तैर्युगं, चतुरशीत्या लक्षैः पूर्वाङ्गं तदपि चतुरशीत्या लक्षैर्गुणितं पूर्वं, एवं पूर्वपूर्वराशिः चतुरशीतिलक्षैर्गुणितं उत्तरोत्तरं त्रुटिताङ्गत्रुटिताटटाङ्गाटटाववाङ्गाववहुहुकाङ्गहुहुकोत्पलाङ्गोत्पलपद्माङ्गपद्मनलिनाङ्गनलिनार्थनिपूराङ्गर्थनिपूरायुताङ्गायुतनयुताङ्गनयुतप्रयुताङ्गप्रयुतचूलिकाङ्गचूलिकाशीर्ष-प्रहेलिकाङ्गशीर्षप्रहेलिकारूपो भवति, एतावत्पर्यन्तं गणितस्य विषयः, अतः परं सर्वमौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशायिना गृहीतं न शक्यते तदौपमिकम् । तच्च द्विधा पल्योपमं सागरोपमञ्च, तत्र पल्यो धान्यपल्य इव स्यात्, तच्च वृत्तात्वादैर्घ्यविस्ताराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनं, उच्चत्वेनापि तद्योजनं किञ्चिन्न्यूनयोजनषड्भागाधिक योजनत्रयं परिधिः स पल्यः, तेनोपमा यस्मिन् तत्पल्योपमं, एतच्च त्रिविधं उद्धारपल्योपममद्धापल्योपमं क्षेत्रपल्योपमञ्चेति, एतेषां स्वरूपाणि अनुयोगद्वारादवसेयानि ।
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy