SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार ત્યાં પહેલા દ્વારને બતાવવા માત્રથી અનુયોગના સ્વરૂપનું વર્ણન કરતા અર્થથી પણ કેટલાક દારોને સંગ્રહિત કરે છે. ननूपक्रान्तोऽनुयोगो हि द्वादशद्वारसंमिश्रः, द्वाराणि च निक्षेपैकार्थनिरुक्तिविधिप्रवृत्तिकर्तृविषयद्वारभेदलक्षणपरिषत्सूत्रार्थरूपाणि, तत्र प्रथमं द्वारप्रदर्शनमुखेनानुयोगस्वरूपं वर्णयन्नर्थतोऽपि कतिचन द्वाराणि सङ्ग्रह्णाति-- उपक्रमनिक्षेपानुगमनयैरनुयोगः ॥४॥ उपक्रमेति, उपक्रमादयो वक्ष्यमाणस्वरूपाः द्वादशविधद्वारान्तर्गतद्वाररूपास्तैरनुयोगः, सूत्रस्य स्वकीयेनाभिधेयेनानुयोजनं सूत्रस्य निजार्थविषये संयोज्य प्रतिपादनलक्षणव्यापारो वा । अर्थापेक्षया सूत्रमणु लघु सूत्रस्य बह्वर्थत्वात् । अणुना सूत्रेण सहार्थस्य योगोऽनुयोगोऽथवा प्रथममर्थं चेतसि व्यवस्थाप्य पश्चात्सूत्रस्य भावादनु पश्चाद्भाविना सूत्रेणार्थस्य योगोऽनुयोग इति निरुक्तिरनुयोगस्य । ननु सूत्रस्य कथमणुत्वं पश्चाद्भावित्वञ्च तथार्थस्य महत्त्वम्, न हि बहुवस्त्राद्याधारभूता पेटिका तदपेक्षयाऽणुभूता भवितुमर्हति, न वा सूत्राभावेऽर्थस्य प्रकाशः, लोकेऽपि प्रथमं सूत्रं ततो वृत्तिस्ततो वातिकं वा भाष्यं वेति क्रमो दृश्यते, न चार्थो महान् एकस्यैवाऽर्थस्य क्वचिद्बहुभिस्सूत्रैर्वर्णनादिति चेन्न, पेटिकान्तर्गतैकवस्त्रादेवानेकासां पेटिकानां बन्धदर्शनेन पेटिकास्थानीयस्य सूत्रस्य वस्त्रस्थानीयादर्थादणुत्वात्, अर्हद्भाषितस्यैवार्थस्य गणधरैस्सूत्रणात्सूत्रस्य पश्चाद्भावित्वम्, लौकिका अपि हि शास्तारः प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थ विना सूत्रस्यानिष्पत्ते । सकलस्यापि श्रुतस्येत्यनेन विषयद्वारोऽप्युक्त एव । व्याख्यानार्थकेनानुयोगशब्देनार्थ-भाषणरूपस्य पर्यायशब्दस्य लाभोऽवसेयः । व्याख्यायामत्यन्तोपयोगित्वेन च द्वारस्य तद्घटितमेव सूत्रमादृतम् । तत्रापि यथा ह्यकृतद्वारं कृतैकादिद्वारं वा नगरमनधिगमनीयं दुरधिगमञ्च भवति निर्गमप्रवेशादावसुकरत्वात्, चतुरं तु सुखाघिगमं कार्याविनाशकञ्च सम्पद्यते तथैवार्थाधिगमोपायद्वारशून्यमशक्याधिगमं प्रकृतविषयं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत् सपरिकरचतुरानुगतन्तु सुखाधिगमं भवतीति द्वारचतुष्टयघटितमेव लक्षणं स्वीकृतम् । तथाऽनु पश्चात् संहितापदपदार्थपदविग्रहपूर्वकं प्रश्नानां योगः समाधानमनुयोग इति व्युत्पत्त्याश्रयेण लक्षणमपि प्रकटीकृतं तथा च पूर्वसूत्रे विषयोऽत्र चैकार्थनिरुक्तिद्वारलक्षणानि प्रदर्शितानि ॥४॥ (645म-निक्षेप-अनुगम-नयो 43 अनुयोग... કહેવાતા સ્વરૂપવાળા એવા ઉપક્રમ વિગેરે બાર પ્રકારના દ્વારની અંતર્ગત દ્વાર સ્વરૂપ છે અને તેઓ વડે અનુયોગ થાય છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy