SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०४ सूत्रार्थमुक्तावलिः वार्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि निर्जरास्थानानि, तान्येव कर्मोदयात् प्रतिरुद्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तस्य जन्तोर्महाशातनावतः सातद्धिरसगौरवप्रवणस्य पापोपादानकारणानि भवन्ति, सर्ववस्तूनामनेकान्तात्मकत्वात् । एवञ्च यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तावन्त्येव कर्मबन्धनायासंयमस्थानानि भवन्ति । तदेवमास्रवद्वारायातेन कर्मणा बन्धं तपश्चरणादिना तत्प्रमोक्षञ्च विशेषेणगमानुसारेण जानीयात्-तत्र तावज्ज्ञानस्य ज्ञानिनश्च प्रत्यनीकतया निहवेनान्तरायेण प्रद्वेषेणात्यन्ताशातनया विसंवादेन च ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनादेरपि प्रत्यनीकादिना दर्शनावरणीयं कर्म जीवानुकम्पनतया बहूनां जीवानामदुःखोत्पादनात्सातवेदनीयं कर्म तद्वैपरीत्येनासातवेदनीयमनन्तानुबन्धिन उत्कटत्वात् तीव्रदर्शनचारित्रमोहनीयान्मोहनीयं कर्म, महापरिग्रहेण पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कम्, मायावित्वेनानृतभाषणात् कूटतुलाकूटमानव्यवहारात्तिर्यगायुष्कम्, प्रकृतिविनीत-तया सानुक्रोशतयाऽमात्सर्यान्मनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसाऽकामनिर्जरया देवायुष्कम्, कायमनोभाषर्जुतयाऽविसंवादनाच्छुभनाम, विपर्ययादशुभनाम, जातिकुलबलरूपतप:श्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम् दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एत आश्रवाः । बाह्याभ्यन्तरभेदं तपो निर्जरा, इत्येवमादीनि भगवदागमानुसारेण विज्ञाय निर्विकल्पो यत्सर्वज्ञो ब्रवीति तदेव चतुर्दशपूर्वविदादयो वदन्ति न तु पाषण्डिकादय इव विरुद्धं वदन्ति, पाषण्डिनो हि स्वदर्शनानुरागितयाऽपरदर्शनमपवदन्तः परस्परं विवदन्ते, तत्र सांख्या आत्मानं सर्वव्यापिनं निष्क्रियं निर्गुणं चैतन्यलक्षणं पञ्चविंशतितत्त्वज्ञानान्मोक्षभाजं वदन्ति, वैशेषिकास्तु द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षं ज्ञानादिगुणसमवायिनमात्मानं परस्परनिरपेक्षसामान्यविशेषात्मकञ्च तत्त्वमङ्गीकुर्वन्ति, शाक्यास्तु परलोकयायिनमात्मानमेकं नाभ्युपयन्ति सामान्यविरहि क्षणिकं वस्तु स्वीकुर्वन्ति, मीमांसकास्तु मोक्षसर्वज्ञाभावाभ्यां व्यवस्थिताः । केचित्पृथिव्यायेकेन्द्रियजीवानपवदन्ति, अपरे वनस्पतीनामचेतनतामाहुः, एते सर्वे वादाः परस्परविरुद्धाः प्रमाणशून्याश्च, एते सर्वे तीथिकाः सावद्ययोगारम्भिणो नरकादियातनास्थानेषु भूयो भूयो दुःखमनुभवन्ति, तस्माद्दुर्लभं सम्यक्त्वं चारित्रपरिणामं वा प्राप्य दृढचेतास्तदनुष्ठाने प्रमादं न कुर्यादिति ॥ ३३ ॥ - હવે શસ્ત્રપરિજ્ઞા વડે જાણ્યા છે જેણે જીવ-અજીવ પદાર્થ એવા મુમુક્ષુ વડે સંસાર અને મોક્ષના કારણનો નિર્ણય કરવો જોઈએ. કારણ કે જીવાદિ સાત પદાર્થની જે શ્રદ્ધારૂપ હોવાથી તે સમ્યક્ત્વ છે. આથી તેના નિર્ણય માટે કહે છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy