________________
१६०
सूत्रार्थमुक्तावलिः बादरापर्याप्तका असंख्येयगुणाः तेभ्यः सूक्ष्मा अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्मपर्याप्तका असंख्येयगुणाः, योनिश्च वनस्पतीनां संवृता, सा च सचित्ताचित्तमिश्रभेदेन त्रिधा, शीतोष्णमिश्रलक्षणभेदत्रयवती च, एवं प्रत्येकतरूणां योनिभेदानां दशलक्षाः साधारणानाञ्च चतुर्दशलक्षा इति । लक्षणं तेजस्कायस्य, यथाहि रात्रौ खद्योतकादेर्देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिर्जीवप्रयोगविशेषाविर्भावितेत्यनुमीयते यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते जीवाधिष्ठितशरीरानुपात्येव भवति एषैवोपमा आग्नेयजन्तूनाम्, न हि मृता ज्चरिणः क्वचिदप्युपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता भाव्या, एवं छेद्यत्वादिहेतुभ्योऽपि । वायोर्लक्षणञ्च, सचेतनो वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद्वाश्वादिवदिति, तिर्यगेव गमननियमाभावादनियमितेति विशेषणोपादानाच्च न परमाणुषु व्यभिचारः, तेषां नियमितगतिमत्त्वात्, जीवपुद्गलयोरनुश्रेणिगतिश्रवणात्, एष वायू रूपरसगन्धस्पर्शात्मकोऽपि सूक्ष्मपरिमाणात् परमाणोरिव चक्षुरविषयोऽपि न तस्याभावोऽचेतनत्वं वा, अन्यथा चक्षुरविषयशरीराणां स्वशक्तिमहिम्ना तथाविधरूपकारिणां देवादीनामप्यभावोऽचेतनत्वञ्च स्यात्, न चैतदिष्टमिति । वनस्पतिलक्षणमपि-यथा हि मनुष्यशरीरं जातं बालकुमारादिपरिणामविशेषवत् प्रस्फुटचेतनाकमुपलभ्यते तथेदमपि वनस्पतिशरीरम्, यतो जातः केतकतरुर्बालको युवा वृद्धश्च संवृत्त इति जात्यादिधर्मत्वमनुभूयते, समानेऽप्युत्पत्त्यादिधर्मकत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमित्यभ्युपगमो न युज्यते, तथा यथा मनुष्यादिशरीरं ज्ञानवत्तथा वनस्पतिशरीरमपि, धात्रीपुन्नागादीनां हि स्वापविबोधसद्भावः अधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्जलधरनिनादश्रवणशिशिरवायुसंस्पर्शनादङ्करोदयः कामिनीचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, एवं सुरभिसुरागण्डूषसेकाद्बकुलस्य, स्पष्टप्ररोहिकादीनाञ्च हस्तसंस्पर्शात् सङ्कोचिकादिका क्रियाविशेषा दृश्यन्ते, न ह्येते ज्ञानमन्तरेण घटन्त इति । तत्र सूक्ष्माश्चक्षुरग्राह्या जीवाः केवलमरक्तद्विष्टभगवदाज्ञारूपागमादेव प्रत्येतव्याः । अनन्तकायानां जीवानामाहारप्राणापानग्रहणमेकमेव भवति, एकस्मिन् ह्याहारितवति उच्छसिते निःश्वसिते वा सर्वेऽप्यागृहीताहारोच्छासनिःश्वासा भवन्ति बहुभिर्वाऽऽहारादिग्रहणे कृते तदेकस्यापि भवति एवलक्षणास्साधारणजीवा भवन्ति, परिमाणं तेजस्कायस्य क्षेत्रपल्योपमासंख्येयभागमात्रवृत्तिप्रदेशराशिपरिमाणा ये बादरपर्याप्तानलजीवास्ते बादरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, बादरापर्याप्तसूक्ष्मपर्याप्तसूक्ष्मापर्याप्तानलजीवाः पृथिवीवद्भाव्याः किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो