SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३० सूत्रार्थमुक्तावलिः અનુયોગ ઘણા અર્થના સંગ્રહરૂપ હોવાથી તેના સારપણાથી તેનું વ્યાખ્યાન કરાય છે. એ પ્રમાણે શેષ બીજા વિશેષનો વિરોધ નહીં હોવાથી સામાન્યરૂપે વર્ણન કરતા છતા સુકોમળ બુદ્ધિવાળાઓનો તેમાં અનાયાસે પ્રવેશ થાય એ પ્રમાણેનો ભાવ છે. આ (પ્રથમ) સૂત્ર વડે વ્યાખ્યાન કરવાની ઈચ્છારૂપ શાસ્ત્રની સમીપ લઈ જવારૂપ સંબંધ ४२।यो छे. मे प्रभाो . ॥१॥ अथ तस्य निक्षेपं सूचयन्नाहएकार्थप्रवर्तनप्रथमाङ्गत्वगणिपरिमाणसमवतारसारैर्भावाचारस्य विशेषः ॥२॥ एकार्थेति, एकार्थाः पर्यायशब्दाः, यथाऽऽचाराऽऽगालाऽऽकराऽऽश्वासाऽऽदर्शाङ्गाऽऽचीर्णाऽऽजात्यामोक्षा भावाचारस्य । भावाचारस्येत्यनेन नामस्थापनाद्रव्याचाराणामेते न पर्याया इत्युक्तं भवति, तथाहि आचारस्य नामस्थापनाद्रव्यभावभेदतश्चतुर्धा निक्षेपो भवति, नामाचारस्थापनाचारौ प्रसिद्धौ तथा ज्ञशरीरभव्यशरीरलक्षणद्रव्याचारभेदोऽपि । उभयव्यतिरिक्तस्तु द्रव्याचारो नामनधावनवासनशिक्षापणसुकरणाविरोधीनि यानि लोके द्रव्याणि तद्रूपः । नामनं हवनतिकरणं तत्प्रति च द्रव्यं द्विविधं भवति, आचारवदनाचारवच्च, तिनिशलतादिकं ह्याचरितभावं तेन रूपेण परिणमति न त्वेरण्डादिद्रव्यम्, हरिद्रारक्तं वस्त्रं धावनं प्रत्याचारवत्, सुखेन प्रक्षालनात्, कृमिरक्तरागमनाचारवत्, तद्भस्मनोऽपि रागानपगमात् । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात् । शिक्षा प्रति शुकसारिकाद्याचारवत् च सुखेन मानुषभाषादिसम्पादनात्, शकुन्ताद्यनाचारवत् । सुकरणं प्रति सुवर्णादिकमाचारवत् सुखेन तस्य कटकादिकरणात्, अनाचारवघ्दटलोहादिकम् । अविरोधं प्रत्याचारवन्ति गुडदध्यादीनि, रसोत्कर्षादुपभोगगुणत्वाच्च, विपर्ययादनाचारवन्ति तैलक्षीरादीनि । पाखण्डिकादिकर्तृकपञ्चरात्राद्याचारो लौकिको भावाचारः, अलौकिकस्तु स ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् पञ्चविधः, तत्र ज्ञानाचारोऽपि कालविनयबहुमानोपधानानिह्नवव्यञ्जनार्थतदुभयभेदतोऽष्टविधः, निःशङ्कितत्वं निष्कांक्षितत्वं निर्विचिकित्सताऽमूढदृष्टित्वमुपबृंहः स्थिरीकरणं वात्सल्यं प्रभावना चेत्यष्टविधो दर्शनाचारः । तिस्रो गुप्तयः पञ्च समितयश्चेति चरणाचारोऽष्टधा, द्वादशधा तपआचारः, वीर्याचारस्त्वनेकधा, इत्येवं पञ्चविधाचारप्रतिपादकोऽयं ग्रन्थविशेषश्च भावाचारः । आचाल्यतेऽनेनातिनिबिडं कर्मादीत्याचालः तदुभयव्यतिरिक्तद्रव्याचालस्तु वायुः, भावाचालश्च ज्ञानादिपञ्चविधः । आगालनं समप्रदेशावस्थानमित्यागालः, उभयव्यतिरिक्तद्रव्यागालो
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy