________________
आओ संस्कृत सीखें
11. न शक्नुमो वयमार्यस्य मतिमतिशयितुम् ।
12. कृष्णेनाम्ब ! गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया, सत्यं कृष्ण ? क एवमाह ? मुशली, मिथ्याम्ब ! पश्याननम् । 13. अहो विशालं भूपाल ! भुवन त्रितयोदरम् । माति मातुमशक्योऽपि यशोराशि र्यदत्र ते ।। 14. आदिमं पृथिवीनाथ - मादिमं 'निष्परिग्रहम् । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः । 15. यात्येकमेव चैतन्यं, जन्मतोऽन्यत्र जन्मनि । शैशवादिव तारुण्ये, तारुण्यादिव वार्द्धके ॥ 16. एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । एवमाशाग्रह - ग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।। 17. किं करोमि, क्व गच्छामि, कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं, प्राणैरपि विडम्बितः ।।
"
61
18. अद्यैष मत्सुतो बालो, निद्राणो रजनीमुखे । सहसैव महाक्रूरैरदश्यत सरीसृपैः ।।
19. 'परतप्तिपरा: प्रायः, क्रुध्यन्तश्च पदे पदे ।
आक्रान्ता जरया वत्स ! केवलं शेरते जनाः ।। 20. सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।।
21. याम इव याति दिवसो दिनमिव मासोऽथ मासवद्वर्षम् । वर्ष इव यौवनमिदं यौवनमिव जीवितं जगतः ।।
टिप्पणी : 1.
2.
निर्गतः परिग्रहो ( ममता ) यस्मात् स निष्परिग्रहः, तम्
परतप्ति: परा (उत्तमा प्रिया) येषां ते परतप्तितरा:
3. आ+क्रम्+त = आक्रान्त भूतकृदन्त इसी प्रकार क्लम् का क्लान्त 'भ्रम् का भ्रान्त'