________________
आओ संस्कृत सीखें 17. पद्म-प्रभ-प्रभो देह-भासः पुष्णन्तु वः श्रियम् ।
अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ।। 18. जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।
मित्रं चापत्ति-काले च भार्यां च विभव-क्षये ।। 19. आत्मानं विषयैः पाशै र्भववास-पराङ्मुखम् ।
इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः ।। 20. बहूनामप्यसाराणां समवायो हि दुर्जयः ।
तृणैरावेष्ट्यते रज्जु र्येन नागोऽपि बध्यते ।। 21. प्रीणाति यः स्वचरितैः पितरं स पुत्रो,
यद् भर्तुरेव हितमिच्छति तत्कलत्रम् । 22. तन्मित्रमापदि सुखे च समक्रिय यद,
एतत् त्रयं जगति पुण्यकृतो लभन्ते ।।
टिप्पणी : 1. निर्गतो विकल्पो यस्मात् तत् निर्विकल्पम् तत् (द्वितीया) क्रिया विशेषण। 2. समा क्रिया यस्य तत् समक्रियम् । .