SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आओ संस्कृत सीखें 4. हिन्दी में अनुवाद करो 1. न तज्जलं यन्न सुचारुपङ्कजम्, न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।। 2. हिरण्यकशिपु दैत्यो यां यां स्मित्वाऽप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ।। 3. ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । बलभद्रप्रलम्बघ्नौ पक्षाविव सिताऽसितौ ॥ प्रणमन्तं च राजानं ऋषि: पस्पर्श पाणिना । मार्जन्निव तदङ्गेषु संक्रान्त - वर्तनीरज: ।। 5. तत्राऽऽश्रमे विविशतु भ्रातरौ तावुभावपि । तातं चाऽग्रे ददृशतु र्नयनाम्भोजभास्करम् ।। ततश्च नवभिर्मासैः सार्ध - सप्तदिनाधिकैः । धारिणी सुषुवे सूनुं न्यूनीकृतरविं रुचा ।। तं सार्थं लुटितुं तत्र चौरव्याघ्रा दधाविरे । मृगवच्च, पलायन्त सर्वे सार्थनिवासिनः ।। 8. विवाहलग्नं निर्णिन्ये तद्दिनात्सप्तमे दिने । 7. 9. 177 6. उपजात - विस्मयो नरपति र्निरीक्ष्य चक्षुषा निश्चलेन तं हारमुत्तरीयाञ्चलैकदेशे बबन्ध । 10. क्षितिपालदारकैः सह क्रीडासुखमनेकप्रकारमनुभवतो निरङ्कुशप्रचारस्य पञ्चवर्षाणि तस्य बालस्यान्तःपुरेऽतिचक्रमुः । 11. समरेष्वस्य वैरिभिश्चारु चापेषुधी त्यक्त्वा गुरु अबलता - भीती शिश्रियाते ।
SR No.023124
Book TitleAao Sanskrit Sikhe Part 02
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah, Vijayratnasensuri
PublisherDivya Sandesh Prakashan
Publication Year2011
Total Pages366
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy