SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३८ अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिता अत्रेदमवधेयं संसारान्तर्वतिसकलवादिप्रतिवादिवृन्दकलाकलापकौशल्यावलोकनकुशलाकलनकलाकलापपरिकलितचेतोभिर्भवान्तर्वति विश्वातत्त्वतत्त्वहेयोपादानकुशलधीधनैरुपेक्षणीयेषु माध्यस्थ्यभावसजनैः। यद्यपि सर्वे आस्तिकाः, नानाविधविधानधुरन्धराक्षुण्णप्रत्यक्षप्रभृतिप्रमाणप्रथाप्रतीयमानघटपटलकुटशकटकटप्रभृतिपदार्थसार्थान् व्यवहारमात्रतः स्वीकुर्वतः तत्त्वदृष्ट्याऽपोहप्रवीणान् वेदान्तिनो विहाय, विश्ववैचित्र्यान्यथानुपपत्त्येकलक्षणाद्धेतोर्भवान्तरानुयायिन आत्मनः शुभाशुभसाधनसमर्थमदृष्टं तत्त्वदृष्ट्यानुपचरितमङ्गीकृतवन्तः। प्रमाणयन्ति चात्र वेदान्तिनः ब्रह्मभिन्नमसत् प्रतीयमानत्वात् मरुमरीचिकावत् । ये ये द्रव्यादयः पदार्थाः विश्वे दरीदृश्यन्ते ते ते मतिभ्रमनिमित्तकाः न पुनः तत्वदृष्ट्या वर्तन्ते । एतदनुमानान्तःपातिनः कर्मणोऽपि तादवस्थ्यम् । तथा च श्रुतिः-"अविनाशी वारेऽयमात्मा सत्यं ज्ञानमनन्तं ब्रह्म एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन" इति । एतनिखिलमतिकष्टेन सङ्घातीकृतमहत्तणपुञ्जनिक्षिप्तचित्रभानुसीकरसाध्यम् , तथाहि-प्रत्यक्षेण विधीयमानपदार्थसार्थस्यानुमानादिनाऽपलपितुमशक्यत्वेन घटादौ प्रत्यक्षबाधः, ब्रह्मभिन्नघटादौ घटासत्त्वविरुद्धत्वेन विरुद्धः, साध्याभावववृत्तित्वेन घटादौ तव निधर्मके ब्रह्मणि च व्यभिचारः, ब्रह्मभिन्नमसन्न भवितुमर्हति प्रतीयमानत्वादिति प्रत्यनुमानेन सत्प्रतिपक्षितः। किश्च-ब्रह्मभेदः प्रसिद्धो न वा ?, प्रसिद्धश्चेत् ? द्वैतापत्तिः, अप्रसिद्धश्चेत् पक्षासिद्धिः। एवं साध्यमपि सदसद्वा, सचेत् ? द्वैतापत्तिः, असचेत् ? अनुमानायासव्यर्थतेत्येवं संभावनीया अनु
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy