SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १० अनुयोगाचार्यश्रीमत्प्रेमविजयगणिगुम्फिताकालाभावे च गर्भादि, सर्व स्यादव्यवस्थया । परेष्टहेतुसद्भाव-मात्रादेव तदुद्भवात् ॥ ४॥” इति । । अथैकस्यापि कालस्य सर्वकार्यहेतुत्वे युगपत् सर्वकार्योत्पत्तिः, तत्तत्कार्ये तत्तदुपाधिविशिष्टकालस्य हेतुत्वे उपाधीनामवश्यक्लसत्वेन तेषामेव कार्यविशेषे हेतुत्वमुचितम्, किमजागलस्तनकल्पेन कालेनेति चेत् ? अत्र नव्याः क्षणरूपः कालोऽतिरिक्त एव, नच स्वजन्यविभागप्रागभावावच्छिन्नकर्मणः तथात्वमिति वाच्यम् , विभागे तदभावापत्तेः, पूर्वसंयोगावच्छिन्नविभागस्य तथात्वमित्यपि न वक्तव्यम् , अननुगमादिति । तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणवृत्तित्वेन कालस्य हेतुत्वम्, तत्क्षणस्य खसादभेदेऽपि 'इदानी क्षण' इति प्रतीतिबलात् कालिकाधाराधेयभावस्यावश्यकत्वेन तत्क्षणवृत्तित्वं नासिद्धम् । एतेन क्षणिकत्वमपि नानुपपन्नम्, तत्तत्क्षणतन्नाशानां तत्तत्पूर्वक्षणजन्यत्वात् , तथा च क्षणक्षयिणा क्षणेनैव कार्योत्पत्तौ किमतिरिक्तहेतुकल्पनयेति । न चैकस्मिन्नेव क्षणे कपाले घटादिकं तन्तौ पटादिकं कार्यमिति देशनियमार्थमतिरिक्तहेतुसिद्धिरिति वाच्यम् , काचित्कस्य नित्य इवानियेऽपि स्वभावतः सम्भवात् काचित्कस्यैव हेतुनियम्यत्वेन तदापत्त्यभावात् , अथ क्षणसेवान्येषामपि नियतपूर्ववर्तित्वेन कथं हेतुत्वप्रतिक्षेपः क्रियत इति चेत् ? न, अवश्यक्लप्तनियतपूर्ववर्तिनः एव कार्यसम्भवे तयतिरिक्तानामनन्तनियतपूर्ववर्तिनामन्यथासिद्धत्वकल्पनेन लाघवादित्याहुः तसात् विश्वविचित्रता निखिलापि कालकृतेति ध्येयम् ।
SR No.023098
Book TitleKarmasiddhi
Original Sutra AuthorN/A
AuthorPremvijay Gani
PublisherManchubhai Jivanchandra Zaveri
Publication Year1929
Total Pages68
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy