SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४४ कातन्त्रव्याकरणम् [दु० वृ० ] एषां धातूनामिति परे आकारो भवति । विस्मापयते, जापयति, क्रापयति, अध्यापयति। हेतुकर्तृभये स्मिडोऽभिधानात् कुञ्चिकयैनं विस्माययति । करणाद् भये न स्यात् । भातिरिनन्तो हेतुभयेऽपि वर्तते - मुण्डो भापयते । भीषिचिन्तीति वचनाद् भियः षान्तता । मुण्डो भीषयते । विस्फुरणं विस्फारस्तं करोतीतीन् – विस्फारयति, विस्फोरयति। हेतुकर्तृविवक्षायामिन् । चप सान्त्वने चयनेऽपि वृति: - चापयति । चिञस्तु - चाययति । डु वप प्रजनेऽपि - पुरोवातो गाः प्रवापयति । वी प्रजने - प्रवाययति गर्भं ग्राहयतीत्यर्थः। तपः साधयति, धर्मं साधयतीति । पारलौकिकंऽपि साधिना भवितव्यमेव । षिधु गत्यामित्यनेन च अन्नं सेधयति, ग्रामं सेधयति इति भवितव्यमेव । सिध्यतिनापि तपस्तापसं सेधयति। कस्त्वामुल्लापयते । श्येनो वर्त्तिकामुल्लापयते । लातेरेवायं प्रयोगः। विसंवादाभिभवयोर्लियः कारिते प्रयोगो नास्ति, अनभिधानात् । रुचादिरयम् । विलाता, विलेता, विलास्यते, विलेष्यते, विलाय, विलीय | लातेर्लियश्च प्रयोग:, अनेकार्थत्वाद् धातूनाम्।। ५६३ । [दु० टी० ] — स्मिजि० । 'स्मिङ् ईषद्धसने, जि जये, डुक्रीञ् द्रव्यविनिमये, इङ् अध्ययने' (१।४५७, १९१; ८ । १; २१५६) । हेतुकर्त्रित्यादि । प्रयोजकाद् भये (विस्मये) वर्तमानस्य स्मयतेरात्वम्। मुण्डो विस्मापयते । जटिलो विस्मापयते । 'अभिधानलक्षणा हि कृत्तद्धितसमासा:' इति बाहुल्याद् उच्यते। अन्येऽप्यभिधानादिति भावः । हेतुकर्तृभीस्म्योरिन्निति रुचादिरिति करणाद् भये परस्मैपदम्। “भियो हेतुभये” इत्यात्वं वा वक्तव्यम् । ईकारान्तस्य भिय: षान्तता चेति न वक्तव्यमित्याह – भातिरित्यादि । रुचादित्वादात्मनेपदम्। दीप्तौ तु ‘भापयति' इति भवितव्यम्, प्रकाशयतीत्यर्थः । षकारान्तता कथमित्याह - भीषिचिन्तिपूजि - कथिकुम्बिचर्चिस्पृहितोलिदोलिभ्यश्चेति भावः । अथवा एवं भीषिर्हेतुभये स्वभावात् प्रकृत्यन्तरमस्ति। बिभेतेश्च हेतुभये प्रयोगो नाभिधीयते, तदा भीषिस्म्योरिति रुचादौ पाठ: कर्तव्यः । सूत्रकारस्य मतमिनन्तस्य स्मयतेरवश्यं हेतुना सम्बन्धः । तत्र यद् भयं स धातोरर्थः क्रिया, अवश्यं सा हेतोः कारकस्य साध्या भवति, तत्रानेन 'हेतुभये' इति हेतुना विशेषणेन न किञ्चिदपि निवर्तते । तत्रैतत् स्याद् अविवक्षितो यदा हेतुस्तदा तद् भयं हेतोर्न भवति, तस्यानेन निवृत्तिरिति नैतच्छक्यम्, इनन्तश्च धातुर्हेतोरविवक्षेति विप्रतिषेधः स्यात् तस्मात् 'कुञ्चिकयैनं विस्मापयति' इत्यात्वेन भवितव्यमेव। अथैवं मन्यते 'बिभेत्यस्मादिति भयम्’| अपादान - 'साधनम्' हेतुरेव भयमिति कर्मधारयः पूर्ववद् विशेष्यस्याप्यभिधानान्न भावसाधने षष्ठीसमास इति, तथाप्यभिधानमाश्रयितव्यम्, किमेतेन हेतुभयग्रहणेनेति भावः । स्फुरतिचिनोत्योरात्वं वा सन्ध्यक्षरस्येति न वक्तव्यमित्याह
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy