SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: २३ २. आपिप्ये। आङ् + प्याय् + ए। 'प्यायी' (१ । ४१३) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद प्रथमपुरुष – एकवचन 'ए' प्रत्यय, 'पि' आदेश, द्विर्वचनादि, “य इवर्णस्यासंयोगपूर्वस्यानेकाक्षरस्य'' (३। ४। ५८) से धातुघटित इकार को यकारादेश। ३. आपिप्याते। आङ् + प्याय् + परोक्षा – आते। आङ् – पूर्वक प्यायी धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुषद्विवचन ‘आते' प्रत्यय, 'पि' आदेश, द्विर्वचनादि तथा धातुघटित इकार को यकारादेश। ४. आपिप्यिरे। आङ् + प्याय् + परोक्षा – इरे। 'आङ्' उपसर्ग-पूर्वक ‘प्यायी' धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद-प्रथमपुरुष - बहुवचन 'इरे' प्रत्यय, प्याय् को 'पि' आदेश, द्विर्वचनादि तथा इकार को यकारादेश।। ५५० । ५५१. श्वयतेर्वा [३।४।११] [सूत्रार्थ चेक्रीयितसंज्ञक 'य' प्रत्यय तथा परोक्षासंज्ञक प्रत्यय के परे रहते 'श्वि' धातु को वैकल्पिक सम्प्रसारण होता है।। ५५१ । [दु० वृ०] श्वयतेश्चेक्रीयिते परे परोक्षायां च संप्रसारणं भवति वा। शोशूयते, शेश्वीयते। शुशाव, शुशुवतुः। शिश्वाय, शिश्वियतुः।। ५५१।। [दु० टी०] श्वयते । गुणिन्यप्राप्ते विभाषा अगुणे च प्राप्ते विभाषा। यस्मिन् पक्षे श्वयते: संप्रसारणं नास्ति तदापि “परोक्षायाम् अभ्यासस्योभयेषाम्" (३।४। ४) इति संप्रसारणं प्राप्नोतीति अभ्यासे प्रतिषिध्यते। इतर आह - नाप्राप्तयोरगुणाभ्यासलक्षणयोरियं श्वयतेर्विभाषा आरभ्यते। सा यथैवागुणं बाधते तथाभ्यासलक्षणमपि, परत्वाद् वा श्वयतेलक्षणस्यावकाश: – शुशाव, शुशविथ। शिश्वाय, शिश्वयिथ। अगुणलक्षणस्यावकाश: 'शून:, शूनवान्' इत्यादौ। इह तूभयं प्राप्नोति – शिश्वियतुः शिश्वियुरिति। यदि तर्हि परत्वाद् अगुणलक्षणं बाधते, एवम् अभ्यासलक्षणमपि, तत्राभ्यासलक्षणस्यावकाश:। अन्ये यजादय: ‘इयाज, उवाप' श्वयतिलक्षणस्यावकाश: पररूपं श्वयतेरभ्यासस्योभयेषां प्राप्नोतीति 'शिश्वियतः, शिश्वियः' श्वयतिलक्षणं भवति परत्वादिति, नैतद् युक्तम्। यतो यजादय इति व्यवस्थावाच्यादिशब्द:, स च गणे पठितान् यजादीन् प्रत्यकमपेक्षते, कुतश्चोदनात् क्वचिदेव यजादौ कृतावकाश: स्यात्, तस्मादनवकाशमभ्यासलक्षणं संप्रसारणं प्राप्नोतीति प्रतिषेधस्य विषयः।। ५५१ । [वि. प०] श्वयते । 'शुशुवतुः, शिश्वियतुः' इति अतुस्, “स्वरादाविवर्णोवर्णान्तस्य" (३। ४। ५५) इत्यादिना इयुवौ।। ५५१ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy