SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४६२ कातन्त्रव्याकरणम् एवं सति प्रावरिषीढ्वम्, अलविढ्वमित्यादौ व्यवहितस्यापि धस्य ढत्वं न दुष्यतीति सार्थकत्वेऽपीति 'सज्ञापूर्वको विधिरनित्यः' (का० परि० ३०) इत्युपतिष्ठत एवेत्याहधातोरित्यादि । दिदीयिट्वे, दिदीयिध्वे इत्यपि "दीङोऽन्तो यकार" (३।४।२६) इति कृतेऽपि भूतपूर्वगत्या नाम्यन्तत्वाद् इदमपि भवतीत्यर्थः । अन्तग्रहणाद् भूतपूर्वगत्या नित्यं प्राप्तमिति संज्ञापूर्वकत्वादनित्यत्वमुच्यते । यद्येवं कथं प्रग्रहीषीदवम्, प्रग्रहीषीध्वम् । संवलिषीढ्वम्, संवलिषीध्वम् इत्यादयः । न चैते न भवतीति सर्वैरिष्टत्वात् । । दुर्गसिंहोऽपि टीकायाम् इटो दीर्घविधौ अग्रहीढ्वम्, अग्रहीध्वम् इत्यदाहरणद्वयं मन्यते इति लक्ष्यते ? सत्यम् । हयवरलकारेभ्योऽप्यासु सेट्सु विभाषैवानित्यत्वस्य लक्ष्यानरोधात् । अन्यत्र न भवति आसिषीध्वम्, वर्तिषीध्वमिति । तर्हि किमन्तग्रहणेन भूतपूर्वनाम्यन्तार्थेन प्रावरिषीदवमित्यादेरस्य विषयत्वाद् विकल्पेन हि भवितव्यमिति? सत्यम् । तीर्षीदवम्, अतीवम् इत्यादावात्मनेपदे च सिजाशिषोरिति वचनादनिटपक्षे एतदर्थं क्रियमाणमन्तग्रहणमेतदपि विषयीकरोति । अत एवोक्तं नित्यं प्राप्तं पक्षे 'सज्ञापूर्वको विधिरनित्यः' (का० परि० ३०) इत्युच्यते ।।८४२।। [समीक्षा] 'कृषीढ्वम्, चकृढवे, अध्यगीढ्वम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ धकार को ढकारादेश की अपेक्षा होती है, जिसका विधान दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है- “इण: पीध्वंलुङ्लिटां धोऽङ्गात्" (अ० ८।३।७८) । 'लविषीदवम्, लविषीध्वम्' इत्यादि में वैकल्पिक ढकारादेश में कारण का स्पष्टीकरण करते हुए वृत्तिकार ने कहा है कि संज्ञापूर्वक की गई विधि अनित्य होती है, यहाँ पर भी 'धातु' इस संज्ञाशब्द का जो उल्लेख किया गया है, उसी कारण इडागम होने पर उक्त विधि की प्रवृत्ति वेकल्पिक मानी जाती है। [विशेष वचन] १. धातोरिति संज्ञापूर्वकत्वादनित्यार्थम्, तेनासु सेट्सु विभाषा सिद्धा (दु० वृ०) । २. विशेषणेन च तदन्तविधिरिति भावः (दु० टी०)। ३. विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् (दु० टी०) ।। ४. अन्तग्रहणाद् भूतपूर्वगत्या नित्यं प्राप्तमिति संज्ञापूर्वकत्वाद् अनित्यत्वमुच्यते (वि० प०)। [रूपसिद्धि] १. चेपीढ्वम् । चि + आशी:-पीध्वम् । 'चिञ् चयने' (४/५) धातु से आशीविभक्तिसंज्ञक उ० पु०-ए० व० 'सीध्वम्' प्रत्यय, “नाम्यन्तयोर्धातुविकरणयोर्गुणः'' (३।५।१) से धातुगत इकार को गुण-एकार, “निमित्तात् प्रत्ययविकारागमस्थ: स: षत्वम्' (३।८।२६) से सकारको षकार तथा प्रकृत सूत्र से धकार को ढकारादेश । २. कृषीदवम् । कृ + आशी:-सीध्वम् । ‘डु कृञ् करणे' (७।७) धातु से आशीविभक्तिसंज्ञक उ० पु०-ए० व० सीध्वम्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy