________________
२८४
कातन्त्रव्याकरणम्
७१३. सणोऽलोपः स्वरेऽबहुत्वे [ ३ । ६ । ३३]
[सूत्रार्थ]
बहुवचन से भिन्न प्रत्ययस्य स्वर के परे रहते 'सण्' प्रत्यय के अकार का लोप होता है ।। ७१३ ।
[दु० वृ०]
सणोऽकारस्याबहुत्वे स्वरे लोपो भवति । अधुक्षाताम्, अधुक्षाथाम्, अधुक्षि। स्वर इति किम् ? अधुक्षत। अबहुत्व इति किम् ? अधुक्षन्त । अकारान्तत्वान्नलोपे न स्यात् ।। ७१३ ।
[दु० टी० ]
सणो०। लोपः सणश्चेत् कथमकारस्य वर्णान्तस्य विधिरिति चेत्, न ! प्रत्ययस्य सर्वापहारी लोप इत्याह- अकारस्येति । सण : अलोप: सणोऽलोपः इत्यकारप्रश्लेषात् 'अधुक्षाताम्, अधुक्षाथाम्' इति सणोऽकारलोपे "आदातामाथामादेः " (३ । ६ । ६२) इतीत्त्वं न स्यात् । अधुक्षीति । इवर्णे एत्वं न स्यात् । अधुक्षन्तेति । "असन्ध्यक्षरयोरस्य तौ तल्लोपश्च " ( ३ । ६ । ४० ) इति निमित्ताकारालोप इत्याह- अकारान्तत्वादिति । दुहदिहलिहगुहां तवर्गवकारयोरात्मनेपदे वा सणो लोपो क्तव्यः । अदुग्ध, अधुक्षत, अदुग्धा:, अधुक्षथा:, अदुग्ध्वम्, अधुक्षध्वम्, अदुवहि, अधुक्षावहि । एवम् अदिग्ध, अधिक्षत, अदिवहि, अधिक्षावहि, अलीढ, अलिक्षत, अलिवहि, अलिक्षावाहि । अगूढ, अघुक्षत, अगुवहि, अघुक्षावहि । तन्न वक्तव्यम्, सणोऽलोप इत्येकयोगो व्यवस्थितवाधिकाराद् दर्शितविषय एव भविष्यति । ततः स्वरेऽबहुत्वेऽत्र 'सण:' इत्यवयव - सम्बन्धे षष्ठी प्रतिपत्तव्या । सणोऽवयवस्य स्वरेऽनन्तरे लोपो भवति, अर्थादकारस्यैव नित्यं ‘प्रत्ययलोपे प्रत्ययलक्षणम्' (का० परि० ५२) इति णकारानुबन्धत्वाद् गुणो न भवति। मतमन्यत्। “अद्यतन्याशिषोश्चात्मने" इति पठन्ति एके । 'आत्मनेपदे' इति विषयसप्तमी। दुहदिहलिहगुहामात्मने वतवर्गयोः पक्षे सण्, सिजपि न भवति, तत्र व्यवस्थितवाधिकारात् ।। ७१३। [वि० प० ]
सणः । अधुक्षाताम्, अधुक्षाथाम् इति । दुहः शिडन्तात् सण्, “दादेर्घ: " ( ३ । ६ । ५७) इति हकारस्य घत्वम्। "तृतीयादेर्घढधभान्तस्य " ( ३। ६ । १००) इत्यादिना दकारस्य धत्वम्। अधुक्षीति । उत्तमपुरुषस्यैकवचनमिति सणोऽकारलोपे “आदातामाथामादेः” (३। ६। ६२) इतीत्त्वम्, "अवर्ण इवर्णे ए" ( १ । २ । २) इत्येत्त्वं न स्यात् । नलोपो न स्यादिति ‘“आत्मने चानकारात्" (३ । ५ । ३९) इत्यनेन यः प्राप्त इत्यर्थ: ।। ७१३ ।
[बि० टी० ]
सणः । ननु समुदायस्य सणो लोपः कथन्न स्यादिति न देश्यम्, तदा 'सण् लोप्यः' इति कुर्यात्, तर्हि अबहुत्वे कि प्रमाणम्, बहुत्वे स्वरे भवतीत्यर्थः कथन्न