________________
अथ तृतीये आख्याताध्याये षष्ठोऽनुषङ्गलोपादिपादः
६८१. अनिदनुबन्धानामगुणेऽनुषङ्गलोप: [३।६।१] [सूत्रार्थ]
इकार से भिन्न अनुबन्धवाली धातुओं में अनुषङ्ग (नकार) का लोप होता है अगुण प्रत्यय के परे रहते।। ६८१ ।
[दु० वृ०]
अनिदनुबन्धानां धातूनामगुणे प्रत्यये परेऽनुषङ्गस्य लोपो भवति। स्रस्यते, ध्वस्यते, नष्टः, नष्टवान् । अनिदनुबन्धानामिति किम् ? शक्यते, वक्यते। अत एव वर्जनादिदनुबन्धानां नोऽस्तीति। तथा च बृंहणमिति स्वरान्तरवाण्णत्वं स्यात्। नजा निर्दिष्टस्यानित्यत्वात् लङ्गिकम्प्योरुपतापशरीरविकारयोः स्यात्-विलगितः, विकपितः। तृन्फादीनां शुम्भान्तानामनि च न लुप्यते। 'तृफ तन्क तृप्तौ' (५।३१), तृन्फतीत्यादि।। ६८१ ।
[दु० टी०]
अनि० । न विद्यते इदनुबन्धो येषां धातूनामिति। न विद्यते गुणो यस्मिन् प्रत्यये इति विग्रहः। स्रस्यते, ध्वस्यते इति। नाम्यन्तानां नाम्युपधानां च गुणो यस्मिन् न विद्यते स इह रूढो गृह्यते। तेन “गुणोऽतिसंयोगाद्योः” (३। ४। ७५) इत्यनेन यण् गुणी नोच्यते। 'नष्टः, नष्टवान्' इति “मस्जिनशोधुटि" (३। ५। ३१) इति नकारागमः, स च लुप्यते। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं नास्तीत्यनिदनुबन्धानामिति प्रतिषेधलिङ्गात्। अत एवेत्यादि। अनिदनुबन्धानामिति प्रतिषेधेन इदनुबन्धानां व्यञ्जनात् पूर्वो नकारागमो भवतीति भावः। धातुप्रकृतित्वमनिदनुबन्धानां प्रतिपाद्यागुणसम्बन्धं कुर्वन् प्रत्यासत्त्या तदगुण एवेदनुबन्धानामनुषङ्गोऽस्तीति चोद्यं निरस्यतीति। अन्यथाऽगुणेऽनिदनुबन्धानामिति ब्रूयात्। अतो निनिमित्तत्वादुपदेशावस्थायामेवानुषङ्गो ज्ञाप्यते। 'तह हिसि हिंसायाम्' (६।१५) इति गणवचनाच्च। अन्यथा कथं "गुरोश्च निष्ठासेट:" (४। ५। ८१) इत्यप्रत्यय: स्यात् । इर्शब्दस्य समुदायस्यानुबन्धत्वं नावयवस्येति। तथाहि 'इरनुबन्धाद् वा' इत्युच्यते सण्विधावदृश इति वर्जनाच्च 'उ बुन्दिर निशामने' (१ । ५८३) इति सानुषङ्गपाठाच्च। इच्चासावनुबन्धश्चेति, तेन तदनुविशेषणाद् वा।
अन्ये त्वाहु: - इदनुबन्धा इह सानुषङ्गा एव पठ्यन्ते। अन्यः कश्चिदाह - इदनुबन्धानामन्त्यात् स्वरात् पूर्वो नुर्वक्तव्य इति णत्वविधौ नुग्रहणमनुस्वारोपलक्षणार्थम्, सत्यपि नौ णत्वं न भवति। 'प्रेन्वम्, प्रेन्वनीयम्' इति, तदसत्। णत्वविधावित्युक्तमेवेति मनसि कृत्वाह - तथा चेति। अनुस्वारस्यापि स्वरत्वमपि प्रतिपादितम्, किन्त्वत्र नुग्रहणाधिकारेणेति भावः । लङ्गीत्यादि। उपताप: पीडा, विलगित इति, कश्चित् कष्टप्राप्त