SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२६ कातन्त्रव्याकरणम् किं ज्ञापकेनेति। यस्माद् 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति द्विवचनमेव स्यादिति। भ्रातृ इत्यादि। ऋदनुबन्धस्य ह्रस्वप्रतिषेधः प्रयोजनम्, भ्राजभासोश्च विकल्पनया ह्रस्वप्रयोजनं नास्तीति नानयोर्ऋदनुबन्ध आदरणीय इत्यर्थः। तथा च 'टु भ्राज-टु भ्राश-टु भ्लास दीप्तौ, भास दीप्तौ' (१ । ५४०, ४४०) इति गणे पठ्यते। हठलुपोरेकारौकारयोरिदुतौ ह्रस्वौ। विकल्पस्तर्हि कथमित्याह-भ्राजनमित्यादि। इहाभिधानात् "चजो: कगौ" (४।६।५६) इति न भवत्यनभिधानात् । घबन्ताद् धात्वर्थे इनि कृते पुनर्हेत्वर्थविवक्षायामिन्। घजोऽकारलोपे समानलोपत्वाद् ह्रस्वो न भवति। एवम् अबभ्राजत्, अबभ्राशत्, अबभासत्, अबभाषत्, अदिदीपत्, अजिजीवत्, अमिमीलत्, अपिपीडत, अचकाणत्, अरराणत्, अबभाणत्, अशश्राणत्, अजिहेठत्, अलुलोपदिति। तेन भ्राजभास-भाष-दीप-जीव-मील-पीड-कण-रण-भण-श्रण-हेठ-लुपादीनां त्रयोदशानां विकल्पो न वक्तव्यो भवति। तस्योक्तेन न्यायेन सिद्धत्वात्, न चैवमर्थोऽपि भिद्यते इति।। ६७७। [बि० टी०] न शास्वृ०। यस्माद् 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति। ननु ह्रस्वस्यापि प्राकृतत्वमस्त्येव, तदा कथं ह्रस्वो न स्यात्, द्विवचनमेव स्यात् पञ्जिकायाम्। अत्राह दुर्गादित्यः - तत्र ह्रस्वस्य प्राकृतत्वं नावलम्ब्यते। गुरवस्त्वेवमाहुः – ह्रस्वस्य न प्राकृतत्वम्। यत: "इन्यसमान०" (३। ५। ४४) इत्यत्र न विद्यते समानलोपो यत्र सोऽसमानलोपः। तत: शब्दावलम्बने ह्रस्व: । शब्दत्वं पुन: सर्वेषामेव प्रत्ययस्य प्रकृतेश्च। अतो ह्रस्वत्वं प्रति न प्राकृतत्वम् ।। ६७७। [समीक्षा 'अशशासत्, अडुढोकत्' इत्यादि शब्दरूपों में ह्रस्वविधि का निषेध उभयत्र किया गया है। पाणिनि का सूत्र है – “नाग्लोपिशास्वृदिताम्' (अ० ७।४।२)। पाणिनीय 'इत्' संज्ञा के लिए कातन्त्रकार ने अनुबन्धसंज्ञा की है। पाणिनि ने 'अग्लोपी' के पाठ से जिन धातुओं में ह्रस्व का निषेध किया है, कातन्त्र में तदर्थ अनेक व्याख्यानवचन उपलब्ध होते हैं, क्योंकि उसका पाठ सूत्र में उपलब्ध नहीं है। [विशेष वचन] १. ओणेक़दनुबन्धो ज्ञापनार्थः, नित्यमपि द्विवचनं ह्रस्वत्वेन बाध्यते (टु० वृ०)। २. क्लिष्टपाठोऽक्षराधिक्यादपि गरीयान् (टु० टी०)। ३. स्वरूपग्रहणं चेक्रीयितलुगनिवृत्त्यर्थम् (दु० टी०)। ४. अथ समानलोपवचनसामर्थ्याच्छब्द एवावसीयते इति प्रतिपत्तिगौरवं स्यात् (० टी०)। ५. इहाभिधानात् "चजो: कगौ'' इति न भवति, अनभिधानात् (वि० प०)। ६. शब्दत्वं पुनः सर्वेषामेव प्रत्ययस्य प्रकृतेश्च। अतो ह्रस्वत्वं प्रति न प्राकृतत्वम् (बि० टी०)। [रूपसिद्धि] १. अशशासत्। अट् +शास+इन् + चण् + दि। 'शासन्तं प्रायुक्त' इस अर्थ में 'शासु अनुशिष्टौ' (२।३९) धातु से “धातोश्च हेतौ" (३। २।१०) से 'इन्' प्रत्यय,
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy