SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये पञ्चमो गुणपादः (३ | ३ | ३६) इति दीर्घः । अथ इन्ग्रहणं किमर्थम्, न हीनमन्तरेण चण: सम्भवोऽस्तीति ‘अलीलवत्' इत्यादावन्तरङ्गत्वादिनि वृद्ध्यावादेशयोः कृतयोः कारितलोपे सति चग्निमित्ते उपधाया ह्रस्वो भविष्यति । २२१ न च वक्तव्यम् इनो लुप्तस्य स्थानिवद्भावाद् उपधाया व्यवहितत्वात् कथं ह्रस्व इति, यस्माद् 'येन नाव्यवधानं तेन व्यवहितेऽपि स्यात्' (व्या० परि० ३९) इति वचनप्रामाण्याद् इना व्यवधानेऽपि चणि ह्रस्वो भविष्यतीत्याह - इन्ग्रहणम् इन्सामान्यार्थम् इति। सामान्यस्यैकत्वान्नित्यत्वाच्च व्यवधानं समानलोपता च न संभवतीति ह्रस्वः प्रवर्तते। ननु सन्वद्भावविधौ इनीति जातिनिर्देशादेवायमर्थः शक्यते समर्थयितुम् । न हि ह्रस्वाभावेऽभ्यासे सन्वद्भावः उपपद्यते लघुनीत्यस्य व्यावृत्तेर्विषयत्वात् । नैवमेतस्मिन् सति तच्छक्यते वक्तुम्, अन्यथा तदप्यसङ्गतमेव मन्यते । अवीवदद् इति वदेर्हेताविन्, वादितवन्तं प्रयोजितवान् इति पुनरिनि कृ पूर्वस्येनो लोपश्चणादिकं च पूर्ववत् । 'अससामत्' इति । सामान्याख्यातवान् इति “इन् कारितं धात्वर्थे” (३।२ ।९) इतीन्, 'इनि लिङ्गस्य" (३ । २।१२) इत्यादिना अन्भागस्य लोप:, स्वरादेशो हि स्थानिवद्भावो भवति न तु स्वरव्यञ्जनानामादेश इति प्रतिषेध उच्यते । इह यदि उपधाग्रहणं न स्यात्, वर्णान्तस्य विधिरिति न्यायात् । लूप्रभृतेर्धातोरन्नस्योकारस्यैव ह्रस्वः स्यात् । अथान्तरङ्गत्वाद् वृद्ध्यावादेशाभ्यामत्र भवितव्यम्, अतोऽन्तेऽकृतार्थत्वाद् अनन्ते भविष्यतीति चेत्, न। एवं सति 'अचकाङ्क्षत्' इत्यत्रापि स्यादित्याह उपधेत्यादि। ननु चान्ते वचनस्याकृतार्थत्वान्मा भूद् आर्थ वचनप्रामाण्यादेकेन वर्णेन व्यवधानमाश्रीयते । न त्वनेकेनेति न्यायान्नात्र ह्रस्वो भविष्यति किमुपधाग्रहणेन ? सत्यमेतत् । किन्तु " लोपः पिबतेरीच्चाभ्यासस्य” (३। ५। ४६) इत्यत्रानुवर्तनार्थम् उपधाग्रहणम्, तेनोपधाभूतस्याकारस्य लोपो यथा स्यात्, अन्यथा ह्रस्वो नामात्र स्वरस्य स्थाने भवन्नन्तस्यासम्भवाद् अनन्तस्य भविष्यति, किन्तु लोप: पुनस्तत्रान्तस्यैव स्यात् तस्मादुत्तरार्थं क्रियमाणम् इहापि सुखार्थं भवतीति । गोनावमाख्यातवान् गोनौः, गोनौ । गोसहिता नौर्गोनोरिति वा, न तु गौश्च नौश्चेति द्वन्द्वः, तदा समाहारे नपुंसकत्वाद् ह्रस्वः स्यात्, इतरेतरयोगे च द्विवचनमिति । इह धात्वर्थे इनि कृते सति औकारस्यासमानलोपत्वाद् ह्रस्वः प्राप्तः औकारस्य स्थानिवद्भावेन इनो व्यवधानान्न भवति ।। ६७६ । - [fao to] इन्ये। उभयोः सावकाशत्वे परत्वम्, तच्च 'पपाच' इत्यादौ द्विर्वचनस्यावकाशः । अपुपुत्रीयदित्यादौ ह्रस्वस्यावकाशः । नामधातोरित्यादिना आद्यस्य द्विर्वचने द्वितीयस्य ह्रस्वः । ननु 'काम्य च" (३ । २ । ६) इत्यत्र " अ च" इति प्रश्लेषव्याख्याने अदधनीयदितिवद् अत्रापि ह्रस्वो न स्यादिति आयिप्रत्यये 'अपुपुत्रायते' इत्यत्र सावकाशत्वं ज्ञातव्यम् । पय इवाचरतीति आयि: 'अपपयायत' इत्यत्र वा अपीपचद् इत्यत्र ह्रस्वः स्यात् ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy