SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २१६ कातन्त्रव्याकरणम् अन्तग्रहणं गणपठितार्थम्, अन्यथा कृरिवाचरतीति आयिलोपे कृते यणि सति 'कृयते' इत्यत्रापि स्यात्। ऋकार एवान्ते यस्य दृष्टस्तस्य भवतीति अत्राप्याय्यन्तस्येत्यर्थः। अन्यथा लक्षणप्रतिपदोक्तयोरिति परिभाषाबाधनार्थम्, अन्यथा ‘क विक्षेपे' (५। २१) इत्येवमादीनामेव स्यात् न कृतदीर्घाणाम्। तपरकरणमसन्देहार्थमिति, अन्यथा हि रन्तस्येत्युच्यमाने 'पूरी, पूर्ण:' इत्यत्रापि स्यात् । वक्ष्यमाणे च सूत्रे ओष्ठ्यौपधमात्रस्य च उरादेशः सम्भाव्येत। गिरतेरिति च ज्ञापकं प्रतिपत्तिगौरवं स्यात्। कीर्तीत्यादि। 'कृत संशब्दने' (९। ७४), चुरादित्वादिन्। ननु 'कीर्त्त संशब्दने' इति कथं न पठितम्, न चान्य ऋकारोपध: संभवति ? सत्यम्, क्वचिदिरादेश एव नास्तीति बोधयति तेन 'अचीकृतत्' इति सिद्धम्। शर्ववर्मणस्तु मतं लोकोपचारादेव कृतेर्ऋत ईर् भवति। अगुण इति किम् ? तरति, तरीता। परत्वाद् गुणं बाधते।। ६७४। [वि० प०] ऋदन्तः । श्रुतस्य स्थानिन इति ऋदन्तो यस्य स ऋदन्तो धातुरिति बहुव्रीहावनेकवर्णोऽप्ययमादेशो न सर्वस्य, अपि तु 'श्रुतानुमितयोः श्रुतसम्बन्धो विधिर्बलवान्' (का० परि० ९२) इति ऋकारस्यैव न धातोरश्रुतत्वात्। न हि कृप्रभृतयो धातवः श्रुता: किन्तर्हि समासगम्या इति अन्तरतम इत्यनेन स्थानेऽन्तरतमन्यायाद् वेति सूचितम्। 'अवर्णटवर्गरषा: मूर्धन्याः' (कात० शि० सू० ३) इत्येकदेशान्तरतमत्वमस्तीति। चिकीर्षतीति। 'डु कृञ् करणे' (७। ७), "स्वरान्तानां सनि" (३। ८। १२) इति दीर्घत्वे सति ईर् भवति। "नामिनो ऊ:" (३। ८। १४) इत्यादिना दीर्घः। इह लक्षणप्रतिपदोक्तयोरिति नाशकनीयम् भवति, अन्तग्रहणस्य व्याप्त्यर्थत्वात्, अन्यथा 'येन विधिस्तदन्तस्य' (का० परि० ३) इति सिद्धमेवेति भावः।। ६७४। [बि० टी०] ऋद० । ऋदन्तस्येति किमिति रन्तस्येत्यास्ताम्। न च वक्तव्यं रन्तस्येत्युक्ते रेफस्य स्यात्। 'पूरी आप्यायने' 'पूर्णः' इत्यत्र “गिरतेश्चेक्रीयिते" (३। ६। ९८) इति ज्ञापकात् तर्हि ह्रस्वस्य स्याद् इत्याह - चक्रवरिति । तर्हि "किरो धान्ये" (४।५।२०) इति निर्देशाद् ह्रस्वस्य न स्यादिति चेत्, नैवम्। तदा सुखार्थ भविष्यति। नन्विकारो भवतीत्यर्थः कथं न स्यात्, नैवम्। अत्रापि ज्ञापकमन्वेतव्यम् – गिरतेरिति ।। ६७४। [समीक्षा 'चिकीर्षति, तितीर्षति' इत्यादि शब्दरूपों में ऋकार को ईर् आदेश की अपेक्षा होती है, जिसका निर्देश दोनों ही व्याकरणों में किया गया है। पाणिनि का सूत्र है"ऋत इद् धातो:'' (अ० ७।१। १००)। तदनुसार पाणिनि ऋ को 'इत्त्व – रपर - दीर्घ' करके उक्त अपेक्षा की पूर्ति करते हैं, जबकि कातन्त्रकार 'इंर्' आदेश के निर्देश से लापव का बोध कराते हैं।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy