SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये पञ्चमो गुणपादः १५५ 'ता' प्रत्यय, “इडागमोऽसार्वधातुकस्यादिर्व्यञ्जनादेरयकारादेः " (३ । ७ । १) से इडागम तथा प्रकृत सूत्र से उपधासंज्ञक उकार को गुण आदेश । २. कोषिष्यते । कुष् + इट् + स्यते । 'कुष्' धातु से भविष्यन्तीसंज्ञक 'स्यते' प्रत्यय, इडागम, गुणादेश तथा सकार को षकारादेश। ३. वर्तिता । वृत् + इट् + ता । 'वृतु वर्तने' (१ । ४८४) धातु से श्वस्तनीसंज्ञक 'ता' प्रत्यय, इडागम तथा प्रकृत सूत्र से गुणादेश | ४. वर्तिष्यते । वृत् + इट् + स्यते । 'वृतु' धातु से भविष्यन्तीसंज्ञक 'स्यते' प्रत्यय, इडागम, गुण तथा सकार को षकारादेश । ५ ६. भेत्ता । भिद् + ता । छेत्ता । छिद् + ता । 'भिदिर् विदारणे, छिदिर् द्विधाकरणे (६। २, ३) धातु प्रों से 'ता' प्रत्यय, गुगादेश तथा दकार को तकार ।। ६३४ । ६३५. अनि च विकरणे [३ । ५। ३] — [सूत्रार्थ] 'अन्' विकरण के परे रहते नाम्यन्त तथा नाम्युपध धातु को गुण. आदेश होता है ।। ६३५ । [दु० वृ० ] नामिन उपधाया नाम्यन्तस्य चान्येव विकरणे गुणो भवति । रोचते, वर्धते, भवति, नयति । अन्येव विकरण इति किम् ? नृत्यति, सुनोति, क्रीणाति, पुषाण । विकरण इति किम् ? अदुहन् ।। ६३५ / [दु० टी०] अनि०। उपधाधिकारान्नाम्यन्तस्य न प्राप्नोतीति चकाराधिकारस्य प्रयोजनमाह नाम्यन्तस्य चेति। ननु करोतेर्गुणविधानबलादन्त्यस्य नामिनो गुणः क्रियते किं चकाराधिकारेण। एवं तर्हि उपधाया लघोरिति नानुवर्तते इति ईक्षते इत्यत्रापि स्यात् । नैवम्, करोतेर्गुण एवोपधाया गुणं व्यावर्तयिष्यति न ह्येकेन विधिर्नियमश्च युज्यते इति ? सत्यम्, प्रतिपत्तिरियं गरीयसीति । 'सिद्धे सत्यारम्भो विधिर्नियमार्थ:' (का० परि० ५९) इत्याह अन्येव विकरणेति । यनादौ विकरणे नैव भवतीति भावः । प्रकृतिनियम एवात्र युज्यते प्रत्ययनियमस्यासम्भवाद् अनुग्रहणं नियमप्रतिपत्त्यर्थम् । विकरण इत्युच्यमाने पूर्वयोगयोर्विकल्पितां बोधयति । अनि चेत्युच्यमाने अर्थात् सजातीये नियमो भविष्यतीति न चांद्यम्, ह्यस्तन्यनि विधिरयं सम्भाव्यते इत्याह – विकरण इत्यादि । "अभ्यस्तानामुसि" (३। ५। ६) इति नियमार्थं स्यात् । 'अविदुः, अद्विषुः' इत्यत्र च मा भूद् इति करातेर्मिदेरित्यत्र च विकरणस्यानुवृनिरिष्यते, अन्यथा तनादिदैवादिकयोर्मध्ये गुणः कृमिदोरवेति नियमः स्यात् ।। ६३५ । [वि० प०] अनि च । विकरणे प्रतिषेधाभावात् पूर्वेणैवं सिद्धं नियमार्थमित्याह - अन्येव —
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy