SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३७ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपाद: [रूपसिद्धि] १. अधिजगे। अधि + इङ् + परोक्षा – ए। 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (२। ५६) धातु से परोक्षाविभक्तिसंज्ञक आत्मनेपद - प्रथमपुरुष -- एकवचन 'ए' प्रत्यय, प्रकृत सूत्र से 'इङ्' को 'गा' आदेश, द्विर्वचन, अभ्याससंज्ञा, ह्रस्व तथा गकार को जकारादेश। २. अधिजगाते। अधि + इङ् + परोक्षा – आते। 'अधि' उपसर्गपूर्वक 'इङ अध्ययने' (२। ५६) धातु से परोक्षासंज्ञक 'आते प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ३. अधिजगिरे। अधि + इङ् + परोक्षा – इरे। 'अधि' उपसर्गपूर्वक 'इङ्' धातु से परोक्षासंज्ञक प्रथमपुरुष-बहुवचन 'इरे' प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।। ६२४ । ६२५. सनीणिङोर्गमि: [३।४। ८५] [सूत्रार्थ 'सन्' प्रत्यय के परे रहते 'इण् – इङ्' धातुओं के स्थान में 'गमि' आदेश होता है।। ६२५। [दु० वृ०] सनि परे इणिङोर्गमिरादेशो भवति। ग्रामं जिगमिषति, वेदान् अधिजिगांसते। गम्ल बोधने सनि नाभिधीयते चेत् तथायमपि। अर्थान् प्रतीषिषति। 'इट् इ गतौ' (१ । १०२) बोधनेऽपि दृश्यते – गमयति । गमिनैव सिद्धम् । अर्थान् प्रत्याययति, शास्त्रमध्यापयतीति भवितव्यमेव।। ६२५। [दु० टी०] सनि० । परस्त्वाह – अबोधने (अज्ञाने) गमिरादेश इति, तच्च विशेषणम् इण एव, इङः इकश्चासम्भवाद् अव्यभिचाराच्चेति। तर्हि 'गम्ल सप्ल गतौ' (१। २७९) इत्यस्य सनि केन वार्यते, विशेषणबलाच्चेति न वक्तव्यम् अभिधानमेव युक्तम्, तथा प्रतीरित्याह-गम्ल इत्यादि। तथायमपीति। 'इण् गतौ' (२। १३) इत्यपि नाभिधीयते इत्यर्थः। कथम् अर्थान् प्रतीषिषतीत्याह - इट् इत्यादि। तथा इणिकोरबोधने कारिते गमिरादेशो न वक्तव्य इत्याह - गमयतीत्यादि। किञ्च बोधनेऽपि दृश्यते गमिः - गम्यतेऽर्थः, गमयन्ति अर्थान् शब्दा: इति।। ६२५ । [वि० प०] मनी । जिगमिषतीति। "से गमः परस्मै" (३। ७। ६) इतीट्। अधिजिगांसते इति। "हनिङ्गमोरुपधायाः" (३१ ८ ! १३) इति दीर्घः । इकोऽपीत्युक्तोऽस्य समाधिः। कश्चिद् आह - इणो धातारबोधनं गमिरादेश इति। तेनेह न भवति – अर्थान् प्रतीपिषतीति। अत्र पुनर्योधने ऽपि प्नोति विशेपाभावादिति। परस्य चोद्यमानस्य समानत्वमापादयति – बोधने मा भूट इणो गमिरादेशः। यस्तु ‘गम्ल सप्ल गतौ' (१ ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy