SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ११२ कातन्त्रव्याकरणम् [विशेष वचन] १. यद्यपि बन्धने वधिस्तथापीचि हिंसायाम् (दु० वृ०)। २. वधि: प्रकृत्यन्तरमित्येके (दु० वृ०)। ३. गणेऽपठितोऽपि वधिर्हिसायां धातुतिव्यः (दु० टी०)। ४. इष्टितो ह्यधिकाराणां प्रवृत्तिनिवृत्ती स्याताम् (वि० प०)। ५. अन्रे तु 'जन जनने' इत्यस्य न भाषायां प्रयोगः इति मन्यन्ते, शर्ववर्मणस्तु मतं लक्ष्यते भाषायामपीति (वि० प०)। ६. 'वध बन्धने' इत्यस्मान्निन्दायां सनो विधानाद् अद्यतन्यादयो नाभिधीयन्ते इत्युक्तम्, इह वधिग्रहणाद् हिंसायामभिधीयते (बि० टी०)। [रूपसिद्धि] १. अजनि। अट् + जन् + इच् + तो 'जन जनने' (२८०) धातु से अद्यतनीसंज्ञक आत्मनेपद-प्रथमपुरुष–एकवचन 'त' प्रत्यय, अडागम, इच् प्रत्यय, "अस्योपधाया दीर्घो वृद्धि मिनामिनिचट्सु' (३।६।५) से उपधादीर्घ, प्रकृत सूत्र से ह्रस्व तथा “इचस्तलोप:'' (३।४।३२) से त-प्रत्यय का लोप। २. अवधि। अट् + बन्ध + इच् + त। 'बन्ध बन्धने' (८।३२) धातु से त-प्रत्यय तथा अन्य प्रक्रिया पूर्ववत् ।।६०६।। ६०७. ओतो यिन्नायी स्वरवत् [३।४।६७] [सूत्रार्थ ओकार से पर में प्रवृत्त होने वाले 'यिन्-आयि' प्रत्ययों को स्वरवद्भाव होता है।।६०७। [दु० वृ०] ओत: परौ यिन्नायी स्वरवद् भवतः। गव्यति, गव्यते। अवोऽपि न स्यात्, गवाजिनवद् इष्टत्वात् ।।६०७। [दु० टी०] ओतः। नामान्तरेण यिन्नाय्योरभावान्नाम्न ओत इति स्थितम्, ओकारेणाथांदायानं वा नाम विशिष्यते ओकारान्तान्नाम्न इति गोशब्दस्य स्वरेऽकारागमो रूढिविषय इत्याह - अवोऽपीत्यादि। किञ्च सामान्यादोकारादतिदिश्यमानं स्वरत्वं कथं विशिष्टाद् गोशब्दाद् येनाकारवर्णागमें 'गवीयति. गवायते' इत्यनिष्टरूपं शक्यते इनि वत्करणस्यासंज्ञारूपत्वात् 'ओतोऽव् औतश्चाव्' इति कृते स्वरग्रहणं वैचित्र्याथं भवति, नाम्यन्तलक्षणे आयेराकारलोपे सत्यवादेशो न स्यात्। तथा वक्ष्यमाणेऽप्यावादेश इत्यायिग्रहणम् । ननु च परत्वादन्तरङ्गो विधिर्बलवानिति प्रागेवादेशे कृते व्यञ्जनान्तलक्षण आयेराकारलोपो भवति, किमर्थमायिग्रहणम् ? सत्यम्। 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७)
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy