SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ भूमिका २. आचार्यास्तु च्विशब्दं न पठन्ति, रूढिशब्दा हि तद्धिता इति (दु०टी० ३/४/६९) । ३. रूढिशब्दा हि तद्धिता इत्याचार्याश्च्विग्रहणं न कुर्वते (दु०टी० ३/४ /७१) । ४. परदर्शने ये निपातास्ते रूढाः (दु०टी०३ / ४/७७) । ५. अशनायोदन्यधनायाः बुभुक्षापिपासाकाङ्क्षासु निपाता रूढाः (दु०वृ० ३/४/७७) । ६. रूढिशब्दा हि तद्धिता इति च्वावीत्वं मन्यते (दु०टी० ३/४/७७) | ७. परदर्शने ये निपाता रूढास्त इह धातवोऽभिधीयन्ते (वि०प० ३/४/७७) । ८. वेञ उभयपदित्वात् परस्मैपदित्वं रूढिविषयम् (दु०टी०३/४/८०) । ९. कथं पृच्छनीयम् ? रूढित्वात् (दु०वृ० ३/५/२७) । १०. स इह रूढो गृह्यते (दु०टी० ३/६/१) | ११. दश्यतेऽनेनेति दशनो दन्त इति करणेऽपि भवति, रूढित्वाद् वा (वि०प० ३/६/४)। १२. रूढित्वात् शादयति संशयनिवृत्त्यर्थम् (दु०टी० ३/६/२६) । १३. (श्वश्रूयते) अपि तु विशिष्टमेव रूढम् (दु०वृ०३/६/६१) । सूत्रकारस्य रचाया वैचित्र्येण कश्चिदाक्षेपः १. स्थादोरिः सिच्यात्मने इति विदध्यात् । विचित्रा हि सूत्रस्य कृतिरिति (दु०टी० ३/५/२९) । २. ननु स्फायेर्यो व इति कथन्न कृतम् ? सत्यम् । विचित्रा हि सूत्रस्य कृतिरिति (बि०टी०३/६/२५) सम्प्रदायस्य प्रचलितत्वात् कातन्त्रस्य प्रतिष्ठा १. कथं विषयान्तरं प्रतिबन्धुं क्षमते इति सम्प्रदाय: ( बि०टी०३ / ४/४) । २. एकयोग इति सम्प्रदायः (बि०टी०३ / ४/५ ) । ३. आकारस्यानित्यत्वं बोधयतीति सम्प्रदायः (बि०टी० ३/४/२९) । ४. अतः पुंवदिति सम्प्रदायः (बि०टी०३/६/४२) । ५. अन्यथा तदुपादानं व्यर्थं स्यादिति सम्प्रदायः (बि०टी०३/८/२४) ।
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy