SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये चतुर्थः सम्प्रसारणपादः ८३ (कलाप० २२१। ३६) इति न दुष्यति, नित्यायाः परिभाषायाः अनित्यत्वमभ्युपगम्योच्यते । यदि वा वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचिदिति । अणेत्यादि । साधारणासाधारणसन्निपातेऽपि विशेषावस्थानं गृह्यते। यथा वृद्धानां किशोराणां मध्ये धेनवो वध्यन्ताम् इत्युक्ते वडवा एव प्रतीयन्ते, तस्माच्छासेरण् प्रत्ययो विहितः 'शासु अनुशिष्टौ ' (२ । ३९) इत्यस्य ग्रहणम्, न ‘आङः शास इच्छायाम् ' (२ । ४६ ) इत्यस्यात्मनेपदिनः । ननु साहचर्यम् एकवाक्यतायां युज्यते। यथा किशोरा धेनवो वध्यन्ताम् इति । अयन्तु भिन्नवाक्यान्तरश्रुतोऽण् कथं वाक्यान्तरश्रुतस्य शासेरवच्छेदक: 5: स्यात् नैवम् । लोके ह्येकवाक्यावस्थमनेकवाक्यावस्थस्यासम्बन्धि श्रूयमाणमेकप्रकरणापन्नं सद्विशेष्यावच्छेदकं दृश्यते । यथा धेनवो मुच्यन्ताम्, किशोरा वध्यन्ताम् इति । कथम् आशीर्ज्ञापकादिति यस्माद् “आशिषि च परस्मै” (३। ५। २२) इत्यादयो निर्दिष्टा दृश्यन्ते ।। ५८७ । [वि० प० ] शासेः। अन्वशिषदिति। ‘अनुपूर्व शासु अनुशिष्टौ' (२। ३९), पुषादित्वाद् अण्। “शासेरिदुपधायाः " ( ३ । ४ । ४८) इत्यादिना इत्त्वे सति "शासिवसिघसीनां च" (३। ८। २७) इति षत्वम् । 'पिष्ट:' इति तस्, निष्ठा वा । " तवर्गस्य षाट्टवर्गाट्टवर्ग:” (३ । ८ । ५) इति । अनेत्यादि अण् । प्रत्ययस्तावदयं शासेरनुशासनादेव विहितस्तेनाणि यस्येकारो भवन् व्यञ्जनेऽपि तस्यैव भवतीत्यर्थः । तेन 'आङ : शास इच्छायाम्' (२। ४६) इत्यस्थ न भवतीति । इदन्तर्हि न सिध्यतीत्याह कथमित्यादि । सम्पदादित्वाद् भावे क्विप् । ज्ञापकादिति “आशिषि च परस्मै" (३ । ५। २२) इत्यादिनिर्देशादिति भावः ।। ५८७ । [समीक्षा] 'अन्वशिषत्, शिष्यते, शिष्ट:' इत्यादि शब्दरूपों के सिद्ध्यर्थ शास्धातु की उपधा को इकारादेश करने की आवश्यकता होती है, इसकी पूर्ति दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है शास इदड्हलो:' (अ० ६ । ४ । ३४) । [रूपसिद्धि] — " १. अन्वशिषत् । अनु + शास् + अण् + दि । 'अनु' उपसर्गपूर्वक 'शासु अनुशिष्टौ ' (२। ३९) धातु से अद्यतनीसंज्ञक प्रथमपुरुष एकवचन 'दि' प्रत्यय, ‘पुषादिद्युताद्य्लृकारानुबन्धार्तिशास्तिभ्यश्च परस्मै " (३ । २ । २८) से अण्-प्रत्यय्, "न णकारानुबन्धचेक्रीयितयो: " ( ३ । ५। ७) से अगुण, प्रकृत सूत्र द्वारा आकार को इकार तथा ‘शासिवसिघसीनां च' (३ । ८ । २७ ) से मूर्धन्य षकारांदेश | २. शिष्यते । शास् + यण् + ते 'शासु अनुशिष्टौ ' (२ । ३९) धातु से कर्मवाच्य में वर्तमानासंज्ञक 'ते' प्रत्यय, "सार्वधातुकं यण्" (३ । २ । ३१) से यण् प्रत्यय, प्रकृत से आकार को इकार तथा धातुघटित सकार को षकारादेश । सूत्र ३. शिष्टः। शास् + क्तः। 'शासु अनुशिष्टो' (२ । ३९) धातु से "निष्ठा" (४ । ३ । ९३) सूत्र द्वारा निष्ठासंज्ञक 'क्त' प्रत्यय इकार, षकार तथा तकार को टकारादेश ।। ५८७ । · -
SR No.023090
Book TitleKatantra Vyakaranam Part 03 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2003
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy