________________
श्रीजानकीप्रसादाख्यो द्विवेदो विवादप्रणीः । व्याख्याति यत्ससंरम्भ कातन्त्रं तन्महीयताम् ।। आराध्यश्शर्ववर्माऽसौ क्लप्तशब्दानुशासनः । आराधकश्च नव्योऽयं द्विवेदस्तद्वयी जयेत् ।। ऐन्द्रं विभुत्वमापन्नोऽस्म्यहं राजेन्द्रसंज्ञकः । यतोऽस्मन्नन्दने जातो हरिश्चन्द्रस्सुरद्रुमः ।। विश्वविद्यालयस्यास्य समज्ञा दिग्दिगन्तगा ।
विभाजतेऽधुना नूनं यत्प्रसूनप्रकाशनैः ।। नात्र काचिदत्युक्तिः। अस्मत्प्रकाशनसंस्थाननिदेशकवर्याणां डॉ० हरिश्चन्द्रमणित्रिपाठिमहाभागानां तद्वशंवदानां डॉ० हरिवंशकुमारपाण्डेयप्रभृतीनामहर्निशोद्यममहिम्नैव प्रकाशनकार्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्येदानी निखिलेऽपि सारस्वतजगति प्रथिम्नः परां काष्ठामधिरूढमिति समनुभूय सप्रणयं प्रकाशननिदेशकान् जयजीवशब्दैर्बहुशस्सभाजये । किञ्च, विद्वत्प्रवरान् आचार्यजानकीप्रसादद्विवेदान् अधिकातन्त्रं कृतभूरिपरिश्रमान् विश्वविद्यालयसारस्वतकीर्तिप्रतननदत्तचित्तान् पुनरप्येकवारं प्रत्युद्गच्छामि सनमस्कारम् । ___मन्ये, प्रकाशनेनानेन कातन्त्रप्रणयिनां विशेषपरितोषस्तु भविष्यत्येव, इतरेऽपि शब्दानुशासनरसिका: परां प्रीतिमुपगमिष्यन्ति ।
विद्वद्वशंवदः
वाराणसी अक्षयतृतीया, वि. सं. २०६० (४ मई, २००३ ई०)
. कुलपति: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य