SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः रूपं सम्भवति, तदुपलक्षितास्त्विह धातवो गृह्यन्ते इति । ते च पारिशेष्यात् डु दाञ् दाने दाण् दाने, दो अवखण्डने, देङ्-त्रैङ् पालने, धेट् पा पाने, डु धाञ्-डु भृञ् धारणपोषणयोरिति, षडेते धातवः । दासंज्ञायां सत्यां "दा-मा-गायति' (३।४।२९) इत्यादिना आकारस्येकारः । अथ कथम् अदाबित्युक्ते दैपो वर्जनं स्यात्, न ह्यस्य दाबिति रूपमस्ति । न चायं सन्ध्यक्षरान्तः, येनाकारे सति एतदुपपद्यते पकारान्तत्वादस्येत्याह – पकारोऽयमित्यादि । यदि पुनरयं पकारः सन्ध्यक्षरान्तत्वम् उपहन्यात् तदायमेव न कृतः स्यात्, न ह्यस्य प्रयोजनान्तरमस्तीति । तथा चाह – 'नानुबन्धकृतमसन्ध्यक्षरान्तत्वम्, नानुबन्धकृतमनेकवर्णत्वम्, नानुबन्धकृतमसारूप्यमिति' (कलाप० २२१।४०, ३८, ३९) ||४२४ | [क० च०] __ अदाप्० । ननु अदाप इति लुप्तप्रथमैकवचनं पदम्, लुप्तप्रथमाद्विवचनं वा । अत्र कुलचन्द्रः- अदाबिति लुप्तप्रथमैकवचनम्, लुप्तप्रथमाद्विवचनेन नञ्तत्पुरुषे न दाप् अदाबिति दाप एकत्वाद् द्वित्वानुपपत्तेः । बहुव्रीहिपक्षेऽपि विशेषणत्वानुपपत्तेः । तथाहि न विद्यते दाप् ययोरिति वक्तुं शक्यते, नहि दाधोर्दाबस्ति किन्तु दामात्रस्येति लुप्तप्रथमाद्विवचनपक्षो न युक्तः इति पनीमाक्षिपति । तन्न, दाबित्यनेन दाप् - दैप् इति व्यक्तिद्वयोपस्थापितत्वेन द्विवचनप्रवृत्तौ बाधकाभावात् । न च अदाबिति समुदायस्य विशेषणं न घटते धास्वरूपस्य दाप्त्वाभावादिति वाच्यम्, दा इत्यनेन सम्बन्धेऽपि आनुषङ्गिकतया 'धा' इत्यनेनापि सम्बन्धस्य घटनात्, कथमन्यथा भवन्मतेऽपि अदाबिति प्रथमैकवचनेन धास्वरूपेण सह अदापः सम्बन्ध इति, अतोऽनया रीत्या बहुव्रीहिपक्षेऽपि न दोषः । यद्यपि न दाप् अदाप् तस्य दा अदाब्दाः स च धाश्चेति अदाब्दाधाविति कुलचन्द्रेणोक्तं तदप्यसङ्गतम्, सामानाधिकरण्यसम्भवे तत्पुरुषस्यानौचित्यात् । महान्तस्तु दाप्दैपोर्व्यक्तिभेदस्य विवक्षितत्वान्नञ्तत्पुरुषस्योत्तरपदवदितिन्यायाद् दामात्रविशेषणस्यापि द्विवचनमेवोपपद्यते 'अवर्षा हेमन्ते' इत्यादिवत् । ततश्च दाप च दैप् च दापौ न विद्येते दापौ यत्र दारूपेऽसावदाप्, अदाप् चासौ दाश्चेति अदाब्दाः, स च धाश्चेति अदाब्दाधाविति एकं पदम् । वृत्तौ तु तात्पर्याों दर्शितः, तेन समासे द्विवचनस्य लुप्तत्वात् लुप्तप्रथमाद्विवचनं घटत एवेति ।।४२४। [ समीक्षा ] 'डु दाञ् दाने, दाण् दाने, दो अवखण्डने, देङ् पालने, धेट पाने, डु धाञ् धारणपोषणयोः' इन छह धातुओं की 'दा' संज्ञा सर्ववर्मा ने तथा 'घु' संज्ञा पाणिनि
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy