________________
२०
कातन्त्रव्याकरणम्
सति परिभाषेयं न स्यात्, अथ मा भूदिति को दोष इति चेन्न, यावता अप्रवृत्तौ पर्याये वा प्राप्ते परिभाषेयमिति वृत्तौ, टीकायां तु पूर्वपरयोरिति न्यायेन सिद्धौ वचनमिदं सुखार्थमिति यदुक्तं तन्न संगच्छते ? सत्यम् । “शेषात् कर्तरि परस्मैपदम्" (३।२।४७) इति सामान्यवचनेन विहितः प्रत्ययो बहूनपि कर्तृन् शक्नोति वक्तुम्, यथा 'देवदत्तयज्ञदत्तविष्णुमित्रा: पचन्ति' इत्युक्ते एकेन प्रत्ययेनानेकेषां कर्तृणामभिधानमिति । यद्येवं "नाम्नि प्रयुज्यमानेऽपि प्रथमः" (३।१।५) इत्यादि वचनमपि व्यर्थमिति चेन्न, नियमार्थत्वेन तेषां सार्थकत्वात् ।
ननु यदि "नाम्नि०" (३।१।५) इत्यादिवचनानि नियमार्थानि तदा कथं 'स च त्वं चाहं च पचामः' इत्यत्र “शेषात कर्तरि" (३।२।४७) इत्यस्य प्रसक्तिनियमव्यावृत्तिविषयत्वात् । तथाहि नियमश्च द्विधा सम्भवति - प्रत्ययनियम उपपदनियमश्च । तत्राद्ये नाम्न्येव प्रथम इत्युक्ते युष्मदस्मदोः “शेषात् कर्तरि" (३।२।४७) इत्यनेन सामान्यसूत्रेण प्राप्तोऽपि प्रथमपुरुषो नियमव्यावृत्त्या न प्रवर्तते । एवं युष्मद्येव मध्यमः इत्युक्तेऽपि नियमव्यावृत्त्या "शेषात कर्तरि" (३।२।४७) इत्यादिना प्राप्तोऽपि मध्यमो नाम्नि अस्मदि च न प्रवर्तते, एवमस्मघेव उत्तम इत्यत्रापि । तथा उपपदनियमे च "नाम्नि प्रथमः" (३११५) एवेत्युक्ते मध्यमोत्तमयो म्नि प्रसङ्ग एव नास्ति । एवं युष्मदस्मदोर्मध्यमोत्तमयोरेवेत्युक्तेऽपि? सत्यम् । “नाम्नि प्रयुज्यमानेऽपि प्रथमः" (३।१।५) इत्यत्र प्रयुज्यमानग्रहणबलात् 'नाम्नि' इत्यस्य नाम्न्यर्थेऽभिधेय इत्यर्थः पर्यवस्यति, ततश्च नाम्न्यभिधीयमान एव प्रथम इत्युक्तेऽनभिधेये न भवति इति नियमव्यावृत्तिः । यथा देवदत्तेन हन्यसे त्वम् इति । एवं युष्मद्यभिधेय एव भवति (अनभिधेये न भवति) त्वया पच्यते ओदनः । एवम् अस्मद्यभिधेय एव भवति (अनभिधेये न भवति) मया पच्यते ओदनः । 'ततश्च स च त्वं चाहं च पचामः' इत्यत्र नामयुष्मदस्मत्कर्तृकाणामभिधेयत्वेन नियमव्यावृत्तेरविषयत्वात् “शेषात् कर्तरि" (३।२।४७) इति सामान्यवचनेन प्रत्ययविधिदुर्निवार एव । अभिधाननियमस्तु सर्वैरेवावश्यमङ्गीकर्तव्य एव, अन्यथा 'पाचकोऽहं व्रजामि' इत्यत्रापि नामयोगात् कदाचित् प्रथमपुरुषोऽपि स्यात् । तत्र च वक्तव्यमस्मदर्थ एव विशेष्यत्वेन मुख्यत्वादभिधीयते, न तु नामार्थस्तस्य विशेषणत्वेनाप्रधानत्वादिति ।
ननु पूर्वोक्तयोरुपपदप्रत्ययनियमयोरग्रहणे को हेतुश्चेदुच्यते - अनेन विधीयमानस्य परपुरुषस्य प्रस्तुतत्वेन मुख्यत्वात् परपुरुषाश्रित एव नियमो गृह्यते न