SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः भविष्यत्त्वावगमो गर्भादिकारणवशाद् अत्र तु त्यादीनां भविष्यत्त्वे किं कारणं वक्तव्यमिति । विदितान्येवेति पाठान्तरम्, तेषां विदितत्वं पुनर्लोकप्रसिद्धत्वादिति । तथापि अयं पाठो न संगच्छते, अन्वाख्याने त्यादीनि भावीनीति तत्कथमत्र प्रश्नो घटत इति हेमकरः। वस्तुतस्तु विदितान्येवेति पाठो युक्त । तथाहि आचार्यस्येदं वाक्यं तस्य सर्वज्ञत्वात् त्यादीनि तु सर्वथा प्रकारेण विदितानि, कथं तत्राचार्यस्य प्रश्नावकाशः । ननु अविदितान्येवेति पाठे त्यादीनामविदितत्वात् तत्र प्रश्नो न घटतां किन्तु कानि परस्मैपदानीति परस्मैपदविषयक : प्रश्नः कथन्न स्यादिति चेत्, न । सूत्रे उत्तरस्यानुपात्तत्वान्न ह्युत्तरं विना प्रश्नो घटत इति । न च त्यादीनां विदितत्वेऽपि त्यादीनि कीदृशानि ? इति प्रश्नमध्याहृत्य परस्मैपदानीत्युत्तरमेवेति वाच्यम् । अध्याहारे प्रमाणाभावाद् वाक्यभेदापत्तेश्च [ वाक्यभेदकल्पने प्रमाणाभावादिति दिक् ] । व्यवहितानामित्यादि । व्यवहितत्वं पुनस्तेषां पादान्तरितत्वादिति भावः । अथानन्तर्यपक्षेऽपि वर्तमानया व्यवहितानां सप्तम्यादीनां संज्ञा कथं स्यात्, नैवं ज्ञापकात् । अयमर्थःआनन्तर्यपक्षेऽपि “सिचि परस्मै स्वरान्तानाम्" इत्यादिज्ञापकाद् व्यवहितानां सप्तम्यादीनां भवत्येव । अधिकारपक्षे तु पादान्तरितत्वेनातिव्यवहितानामपि सन्नादीनां संज्ञा स्यात् । ननु "धातोर्वा तुमन्तात्" (३।२।४) इत्यादिना विधीयमाना ये सन्नादयस्ते कथं "गुतिक्किद्भ्यः सन्" (३।२।२) इत्यादिविशेषविधिं परित्यक्तुं शक्नुवन्ति, भिन्नविषयत्वेन तेषामप्रसङ्गात् ? सत्यम्, एवं योज्या पक्षी- तथाहि आचार्येण विधीयमानाः सन्नादय: "गुप्रतिक्किद्भ्यः सन्" (३।२।२) इत्यादिविशेषविधानं विहाय धातोर्वेत्यादिना करणभूतेन नात्मनेपदिभ्यो भवेयुरिति । एवं च सति आचार्यस्य विधीयमानत्वेन सर्वेषामुपस्थितौ सत्यां तत्र विधिपरित्यागः संगच्छत एव । यथा कौण्डिन्यं विहाय ब्राह्मणान् गोजयेदित्युक्ते ब्राह्मणत्वेनोपस्थितस्य कौण्डिन्यस्य भोजनक्रियायां निषेधो गम्यते इति । ननु यदि आत्मनेपदिभ्यः सन्नादयो न प्रवर्तन्ते इत्युच्यते तदा सनन्तात् “शेषात् कर्तरि" (३।२।४७) इत्यादिना परस्मैपदमेव भविष्यति किं पूर्ववत् सनन्तादित्यनेन चेत्, यथा परस्मैपदाधिकारस्तथात्मनेपदाधिकारे सति परस्मैपदिभ्य आत्मनेपदिभ्यश्च सन्नुत्पत्तौ सत्यां “शेषात् कतरि" (३।२।४७) इत्यादिना परस्मैपदमात्रप्रसक्तौ आत्मनेपदमपि स्यादेतदर्थं तत् सूत्रमिति वाच्यम्, नैवम् । “नव पराण्यात्मने" (३।१।२) इत्यस्येति साक्षान्नव पराणीति संज्ञिनिर्देशात् संज्ञासूत्रत्वेन निश्चितत्वात् सन्नादौ परनवत्वानुपपत्तेश्च
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy