SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४५९ परिशिष्टम् - १ (अ) ४९२/६४. पूजाभिभवयोश्च लातेः [दु० वृ०] लातेर्य इन् स रुचादिर्भवति पूजाभिभवयोरर्थयोश्चकारात् प्रलम्भने च । जटाभिरालापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः । कस्त्वामुल्लापयते, प्रतारयतीत्यर्थः ।। ४९२१६४। [दु० टी०] पूजेत्यादि । इन्नित्येव । पूजायां गम्यमानायामभिभवे प्रलम्भने च । जटाभिरालापयते, पूजां समधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः । कस्त्वामुल्लापयते, विसंवादयतीत्यर्थः ।।४९२।६४। [क० च०] पूजा० । पूजाभिभवयो : प्रलम्भने च वर्तमानाल्लाती रुचादिरित्यर्थः । पूजा - वाक्यार्थः, इतरो धात्वर्थ इत्याह - पूजायां गम्यमानायामित्यस्तीति कुलचन्द्रः। पूजाभिभवयोरिति भाषावृत्तिः। एतन्मते पूजापि धात्वर्थः । जटाभिरिति हेतौ तृतीया । यस्य जटाः सन्ति लोके स महांस्तपस्वीति सम्प्रत्ययः सन् पूज्यो भवतीत्यर्थः । वररुचिस्तु जटाभिः शिवं पूजयतीत्यर्थ इत्याचष्टे । उभयधापीनर्थस्याप्रतीत्या रूटिरेव शरणम् ।।४९२।६४। ४९२/६५. मिथ्याभियोगेऽभ्यासे कृत्रः [दु० वृ०] इन्नित्येव । मिथ्याशब्देन योगेऽभ्यासे पौनःपुन्ये कृञः पर इन् रुचादिर्भवति । पदं मिथ्या कारयते । स्वरादिदुष्टं पदं पुनः पुनरुच्चारयतीत्यर्थ । मिथ्याभियोगे इति किम् ? साधु पदं कारयति । अभ्यास इति किम् ? सकृन्मिथ्यापदं कारयति । कृञ इति किम् : मिथ्यापदं वाचति ।।४९२।६५। [दु० टी०] मिथ्याभियोगेत्यादि । इन्नित्येव । अभ्यासः पौनःपुन्यम् । पदं मिथ्या कारयते । स्वरादिदुष्टं पदम् असकृदुच्चारयतीत्यर्थः । आभीक्ष्ण्यस्यात्मनेपदेनैव द्योतितत्वाद् द्विवचनं न स्यात् । मिथ्यायोग इति किम् ? साधुपदं कारयति ।। ४९२।६५। [वि० प०] मिथ्या० । इन्नित्येव । मिथ्याशब्देन योगेऽभ्यासे पौनःपुन्ये कृत्रः परः इन्प्रत्ययो रुचादिरित्यर्थः । पदं मिथ्या कारयते । स्वरादिदुष्टं पदं पुनः पुनरुच्चारयतीत्यर्थः ||४९२।६५।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy