SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ (अ) ४५५ [दु० टी०] शदिरनीति । अन्विकरणाविषय इत्यर्थः । शीयते । अनीति किम् ? शत्स्यति ।। ४९२ ।५७। [वि० प० ] शदिरनि । शीयते । शदेः शीयः । अनीति अन्विकरणविषय इत्यर्थः । अन्यत्र न भवति - शत्स्यति ॥। ४९२ ।५७ । ४९२/५८. आशीरद्यतन्योश्च मृङ् [दु० वृ०] चकारादद्यतनीति सम्बध्यते । मृङो ङकारानुबन्धत्वात् सिद्धे नियमार्थमुच्यते । आशीरद्यतन्यन्विकरणविषयेष्वेव मृङ् रुचादिर्भवति नान्यत्र । मृषीष्ट, अमृत, म्रियते || ४९२ ।५८। [दु० टी०] आशी० | आशीरद्येत्यादि । आशीरद्यतन्योरेव विषये अन्विकरणे चेति । मृषीष्ट, अमृत, म्रियते । एष्विति किम् ? ममार । ऋकारान्तप्रस्तावादात्मनेपदिषु पाठोऽस्येति || ४९२ । ५८ । [वि० प० ] आशी० । चकारादनीति सम्बध्यते । मृङो ङकारानुबन्धत्वात् सिद्धे नियमार्थमुच्यते । आशीरद्यतन्यन्विकरणेष्वेव विषयेषु भवति, नान्यत्र । मृषीष्ट, अमृत | “हस्वाच्चानिटः” (३।६।५२) इति सिचो लोपः, “ऋदन्तानां च" (३।५।११) इत्यगुणत्वम् । म्रियते । “ इरन्यगुणे” (३।४।७३ ) इतीकारागमः । “स्वरादाविवर्णोवर्णान्तस्य " ( ३ | ४|५५) इत्यादिना इयादेशः । अन्यत्र न भवति - मरिष्यति, ममार । अस्य चात्मनेपदिषु पाठः,. 'धृड् अनवस्थाने, पृङ् व्यायामे' (५/११३, ११०) इत्यादि ऋकारान्तधातुप्रस्तावात्, न तु आत्मनेपदार्थ इति || ४९२ ।५८। [क० च०] आशी० | मृषीष्ट इत्यादि । ननु कथं मरणम् आशीर्विषयम् ? सत्यम्, अतिशयव्याधिपीडितानां मरणमपि श्रेय न दुष्यतीति ।। ४९२ ।५८ । ४९२ / ५९. अशने भुजिः [दु० वृ०] अशनेऽर्थे भुजी रुचादिर्भवति । ओदनं भुङ्क्ते । अशन इति किम् ? भुनक्ति पृथिवीं राजा, पालयतीत्यर्थः । प्रभुजति, वस्त्रं कुटिलं करोतीत्यर्थः ।। ४९२ । ५९ ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy